SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१८ मेधातिथिभाष्यसमलंकृता। [पंचमः अलंकृत्य प्रेतालंकारैः । उनद्विवर्षेऽपि श्रूयमाणोऽलंकारः समाचारात्कृतोपनयनादावपि विज्ञेयः । शुचौ यत्रास्थीनि भूप्रदेशे न सन्ति अस्थिसंचयरहितत्वेन या शुद्धा तत्र निखाय स्थाप्यः । स्मशाने किलास्थीनि संचितानि भवन्ति । अत एव तेन वचनेन ततोऽन्यत्र निधानमुच्यते । न पुनस्तादृशस्यास्थिसंचयो न कर्तव्य इत्येव वाक्यार्थः । ५ अग्निसंस्काराभावादेव तदप्राप्तेः ॥ ६७ ॥ नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया॥ अरण्ये काष्ठवत्त्यक्त्वा क्षपेतं व्यहमेव तु ॥ ६८ ॥ काष्ठवदिति निरपेक्षतामाह । श्राद्धमपि न कर्तव्यं न चोदकम् । उदकक्रियानिषेधेन श्राद्धनिषेधः सिद्धः अङ्गाङ्गिभावात् । अतः समाचारप्रसिद्धः श्राद्धनिषेधो १० लिङ्गेन साधयितव्यः । अन्ये तु स्मृत्यन्तरदृष्टनिखननप्रतिषेधार्थ वर्णयन्ति । ततश्च विकल्पः । क्षपेतं उदास्येत । शास्त्रचोदितं व्यापारं न कुर्यात् ॥ ६८ ॥ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ॥ जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥ ६९ ॥ आ त्रिवर्षस्येति आ तृतीयाद्वर्षात्प्रतिषेधः। न पुनश्चतुर्वर्षादौ । एवमर्थमेवादिशब्द १५ केचित्पठन्ति । नात्रिवर्षस्य कर्तव्या त्रिवर्षादेरिति । समाचारश्चैवमेव । जातदन्तस्य वा कुर्युः । उदकक्रियासाहचर्यादग्निसंस्कारोऽभ्यनुज्ञायते । ननु च विकल्पे कामचारः । तत्र कः प्रयाससाध्यं वित्तक्षयकरमनुष्ठानपक्षमाश्रयेत । व्यर्थस्तदुपदेशः । उच्यते । सर्वविलक्षणोऽयं पित्रोरधिकारः । प्रेतोपकारार्थमेतत्क्रियते । नैमित्तिकत्वादवश्यकर्तव्यमित्येतत्प्रागेवोक्तम् । तत्रावश्यकर्तव्यताप्रतिषेधोऽस्तीतीह निश्ची२० यते । प्रेतोपकारार्थत्वमस्तीत्यभ्यनुज्ञानेन ज्ञाप्यते । तत्राकरणे नास्ति विध्यतिक्रमः । प्रेतोपकारस्त्वनुष्ठानाद्भवतीति विधिप्रतिषेधयोन सामञ्जस्यम् ॥ १९ ॥ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ७० ॥ सब्रह्मचारी समानचरणोऽत एकोदका रूढयाँ सपिण्डेभ्यः परिगृह्यन्ते । २५ तेषामितरेतरं जन्मनि सूतके त्रिरात्रम् । सद्यःशौचमपि स्मृत्यन्तरादुदकदायिनां विकल्पितं द्रष्टव्यम् ॥ ७॥ १ फ-क्षोयुख्यहमेव च । २ फ-सोयुः उदास्येयुः । ३ फ-चित्त । ४ फ-एकोदका अध्यासपिण्डेभ्यः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy