SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः सप्तमे मासे पूर्णमाशौचम् । एतत्तु जीवतो जातस्य युक्तमन्यथा तु गर्भमाससमा इत्येव । इह रजस्वलाया रजस्युपरते स्नानेन शुद्धिराम्नाता । स्मृत्यन्तरे व्यहादूर्ध्वम्। तत्रैवं व्यवस्था। प्राक्व्यहादजेनिवृत्तावपि नास्ति शुद्धिर्ध्वमनुपरतेऽपि भवति । किंतु विशुद्धयतीति । प्रकृते पुनः साध्वीति वचनादनिवृत्ते रजसि वैदिककर्माधिकारानुप्रवेशो नास्ति न पुनः स्पर्शादिनिषेधः । उक्तम् " आद्याश्चतस्रो निन्दिताः” इति । रजस्वला स्त्री रजस्युपरते ५ स्नानेन साध्वी भवति शुद्धा कर्मयोग्येत्येवं पदयोजना । स्त्रीग्रहणं वर्णमात्रख्यर्थम् । पूर्वे तु श्लोका ब्राह्मणविषया व्याख्यातास्तदाशङ्कानिवृत्त्यर्थं स्त्रीग्रहणम् । उत्तरत्रापि यत्र विशेषप्रमाणं नास्ति तत्रापि वर्णमात्रविषयतयैव यथा “ नृणामकृतमुण्डानाम् " इति ॥ १५ ॥ ... * नृणामकृतमुण्डानां विशुद्धिनैंशिकी स्मृता ॥ निर्वृत्तमुण्डकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ६६ ॥ इमाः षष्ठी: "कर्तृकर्मणोः कृतीति " कर्तृलक्षणाः केचिद्वयाचक्षते । अकृतचूड एकाहेन शुद्धयति । तथा वयोवस्थापेक्षोऽपि विकल्प इत्येकीयमतमुक्तम्। तस्यैव श्लोकस्य व्यवस्थावाक्ये इमे । अन्ये त्वध्याहारेण संबन्धलक्षणा आहुः । अकृतमुण्डानां मृतानां ये सपिण्डास्तत्रोत्तरपक्षः समाचाराभिप्रेतः । स्मृत्यन्तरे सद्यःशौचमप्याम्नातम् । विषयस्तत्रैव १५ दर्शितः । आदन्तजन्मनः सद्यः आचूडान्नैशिकी निर्वृत्तचूडकानां त्रिरात्रमिति ॥ ६६ ॥ ऊनद्विवार्षिक प्रेतं निदध्युर्बान्धवा बहिः ॥ अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ ६७ ॥ उने असंस्कृतस्य द्वे वर्षे यस्य जातस्य गते स उच्यते ऊनद्विवार्षिकस्तं प्रेतं बान्धवा बहिामं निदध्युभूमौ निखातायां स्थापयेयुः। स्मृत्यन्तरे निखनेदिति पठ्यते । २० * [ प्राक्संस्कारप्रमीतानां वर्णानामविशेषतः । त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वह्नो विधीयते॥१॥] [ अदन्तजन्मनः सद्य आचूडानशिकी स्मृता। त्रिरात्रमाता देशाद्दशरात्रमतःपरम् ॥२॥] [परपूवासु भायोसु पुत्रषु प्रकृतेषु च। मातामहे त्रिरात्रं तु एकाहं त्वसपिण्डतः ॥३॥] १ फ-चूडानां । २ व्या. सू. २१३६५ । ३ फ-निवृत्त । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy