SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ४१५ तिदेशे तु एकेनैव मुख्यत्वादशाहेन संबन्धः स्वाध्यायादिष्वपाठप्रत्यासत्या दशाहाद्यपेक्षया एकाहेन शक्येनैव च निराकांक्षीकृतत्वादन्यैख्यहादिभिर्न संबन्धः स्यात् । तत्रेयं स्मृतिरविशेषेण वृत्तस्वाध्यायापेक्षायां व्यवस्थायां मृतसूतकयोर्विदधती जनने गुणाद्यनपेक्षया जातिमात्रे स्थाप्यमाना विरुध्यते समाचारश्च बाधितः स्यात् । नन्वेवं स्त्रीणामपि व्यहैकाहादयः कल्पाः सूतिकानां प्राप्नुवन्ति समाचारविरोधिनः । ५ अत्रोच्यते । यद्ययं विकल्पः स्यात्तदेव व्यवस्थित एवासीत्कल्पः । तथाहि तुशब्द उपपन्नतरो भवति सूतकशब्दश्च नाशौचे वर्तते । लक्षणया सूतकसंबन्ध्यशौचं लक्षयेत् । लक्षणायाः साहचर्यादस्पृश्यतैव लक्षयितुं युक्ता यदि च सर्वमाशौचमभिप्रेतं स्यादाशौचग्रहणमेवाकरिष्यत् 'अशौचं मातुरेवेति । अतश्च स्मृत्यन्तरे त्रिरात्रमस्पृश्यतोक्त्या इह तदभावस्तयोर्विकल्पः सूतकं मातुरेव । मातापित्रोर्मतुरेवेति पितुर्विकल्पः । उपस्पृश्य १० स्नात्वा शुचिर्भवतीति । उपक्रममात्रमिदं वक्ष्यमाणेन श्लोकेन पितुरपि व्यहमेव ।। ६१ ॥ निरस्य तु पुमाञ्छुक्रमुपस्पृश्यैव शुध्यति ॥ बैजिकादभिसंबन्धादनुरुन्ध्यादघं व्यहम् ॥ १२॥ सहेतुकं व्यहमुपदिशन्नपस्पर्शनशुद्धिं पूर्वोक्तामनुमन्यते । किमर्थमुच्यत इति चेत् सरूपविधितयाऽर्थवादार्थ न विधेयतया “ जर्तिलयवाग्वा वा जुहुयादिति" वत्। १५ निरस्य तु शुक्र मैथुनधर्मेण संप्रयुज्य शुक्रोत्सर्गादनन्तरं उपस्पृश्य स्नात्वा शुचिभवति । अतो बैजिकादभिसंवन्धात् । बीजनिमित्तो बैनिकः । अभिसंबन्धः अपत्योत्पत्तिः। अतस्तत्र कथं नानुरुन्ध्यानानुवर्तेत । अघमाशौचं व्यहं यादृशं च शुक्रनिरसनेन अकृतस्नानस्याशुचित्वं न तादृशमेव प्रसवे । अपि तु व्यहं पूर्व श्लोकार्धव्यहशेषतयाऽनूद्यते । अत एवोपस्पृश्येति स्नानमुच्यते। " स्नानं मैथुनिनः स्मृतम्” इति वचनान्ना- २. चमनम् । पुत्रे तु जाते तदहः स्पृश्यतैवेति केचित् । तथा च शंख आह “ कुमारप्रसवे नाड्यामच्छिन्नाया गुडतिलहिरण्यवस्त्रप्रावरणगोधान्यप्रतिग्रहेष्वदोषस्तदहरित्येके " ॥ "तस्मात्स दिवसः पुण्यः पितॄणां प्रीतिवर्धनः । स्मरणाच्चैव पूर्वेषां तदहर्न प्रदुष्यति" इति। [ सत्रधर्मप्रवृत्तस्य दानधर्मफलैषिणः ॥ बेताधर्मापरोधार्थमरण्यस्यैतदुच्यते ॥१॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy