SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४१४ ५ www. kobatirth.org मेधातिथिभाष्यसमलंकृता । [ पंचमः ननु च नात्र स्पर्शप्रतिषेधः श्रुतो यावता स्मत्यन्तरे पठ्यते " अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते ” । तथाऽन्यच्च "त्रिभिश्चतुर्भिर्वाऽहोभिर्ब्राह्मणः स्पृश्यतामियात् । एकादशेन शुद्धिः स्यान्मृत के सूतके तथा ॥ राज्ञः षष्ठे सप्तमे वा स्पर्शो द्वादशाहे नान्नशुद्धिः । वैश्यस्य स्पर्शनमष्टमे नवमे वा पक्षेणान्नशुद्धिः । शूद्रस्य स्पर्शनमेकादशे द्वादशे वा मासेनान्नशुद्धिः । हारीतस्तथा वाक्यन्तरमपि 66 79 २. “स्पर्शे क्रमेण वर्णानां त्रिचतुःपञ्चषैर्दिनैः । भोज्यान्नो दशभिर्विप्रः शेषाद्द्वित्रिषडुत्तरैः " ॥ एते च विकल्पाः प्रयोजनापेक्षया गुणवदगुणापेक्षया व्यवस्थापनीयाः । सर्वेषां तावद्ब्राह्मणस्य भक्तदासास्त्रिचतुरैरहोभिः स्पर्शनेन दूषयन्ति । गर्भदासास्तु सद्यः । एव१० मितरेषामपि वर्णानां यत्रेदं सद्यः शौचं तत्र सर्वत्र स्नानं वाससा च । द्रव्यस्य शुद्धिर्या “ यस्य विहितेति " ज्ञापविष्यते । " Acharya Shri Kailassagarsuri Gyanmandir कन्यानामपि त्रिपौरुषेयी सार्पण्डता । " सपुत्राणां तु स्त्रीणां त्रिपुरुषं विज्ञायते " इति वसिष्ठः ॥ आशौच एवैतत् । विवाहे तु विधिर्देशितः । स्थितमेतत् । सप्तमपुरुषो मर्यादा षट्पुरुषाः सपिण्डा इति । सप्तमे प्राप्ते विनिवर्तते । १५ समानोदकभावः समानोदकव्यपदेशः जन्मनाम्नोरवेदने जन्म चायमस्मत्कुले जातः । नाम अमुष्पादिदं नामकात्पितृपितामहादेरुभयोरवेदने निवृत्तिरतश्चान्यतरे ज्ञानेऽप्यनिष्टोदकं ज्ञेयम् । “अवतीर्य नदीमन्यद्वा जलाशयं नाभिदन्नमभुग्नो दक्षिणाभिमुखः सव्योत्तराभ्यां पाणिभ्यामुदकं कृत्वाऽनवेक्षमाणाः प्रत्यात्रजेयुरिति " ॥ ६० ॥ जननेऽप्येवमेव स्यान्मातापित्रोस्तु सूतकम् ॥ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ६१ ॥ एवमेतत्सपिण्डानां जनने यथैव दशाहादयः कल्पाः षट्कर्मादिवृत्त्यपेक्षया स्वाध्यायात्प महत्वापेक्षया च व्यवस्थिता मरणे तथैव जननेऽपि आशौचमात्रमतिदिश्यते कालानवच्छिन्नम् । सामर्थ्याच्च गृह्यमाणविशेषतया तत्संबन्धसकललाभः । कालावच्छिन्ना १ यथेद शावमाशैौचं सपिण्डेषु विधीयते ॥ जननेऽप्येवमेव स्यानिपुणं शुद्धिमिच्छताम् ॥ ६२ ॥ अयं श्लोकः मंण्डलीकसंशोधित पुस्तके ६१ इति दर्शितः । [ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ॥ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ] ॥ ६२ ॥ तथाच अयं श्लोकः तत्रैव ६२ इति दर्शितः । [ उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥ अयं श्लोकः ६२ इति तेनैव दर्शतः । ዘ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy