________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४१३ तेन यावदुक्तं स्यात् प्रपितामहस्य यः प्रपितामहस्तदन्वयना ये यावत्सप्तमास्ते सपिण्डा एव स्वसन्ततौ पित्रादिसन्ततौ द्रष्टव्यम् । यत एव भेदस्तमुपादाय गणना कर्तव्या यावसप्तमावधि । यथा पितामहो येषामेकस्ते तत आरभ्य सप्तमावधयः सपिण्डा इत्येव सर्वत्र तदन्वयनत्वे चोपलक्षणे जातेरनाश्रयणाद्विजातीया अपि क्षत्रियादयो ब्राह्मणादीनां सपिण्डा भवन्ति । अत एव तज्जननाद्याशौचे ब्राह्मणस्य दशाह एव, तेषां तु स्वकाल एव द्वादशाहादिः । अतः सर्वस्य विजातीयनिमित्ते विजातीयसपिण्डनिमित्ते वा जन्मादौ खकाल एव शुद्धिः । क्षत्रियादीनां ब्राह्मणापेक्षया त्रिपुरुषं सापिण्डयम् । तथा च शङ्खः "यद्येकजाता बहवः पृथक्क्षेत्राः पृथाजनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु॥"
पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीष्वित्यर्थः । पृथग्जनाः पृथक्क्षेत्रसमानजातीया अप्यनेकमातृका भवन्ति तदर्थमुभयोरुपादानम् । एकपिण्डाः सपिण्डा १० भवन्ति । किंतु पृथक्शौचा स्वजातिनिमित्त एव तेषां शुद्धिकालः । ब्राह्मणस्य क्षत्रियादेः सूतकादौ दशाहः । ब्राह्मणस्य सूतके तेषां द्वादशाहश्च । तथा चान्योऽपि विशेषः पिण्डस्त्रिष्वावर्तते त्रिष्वेव भवति पुरुषेषु । समानजातीयापेक्षया क्षत्रियादीनां ब्राह्मणवत् षट् पुरुषस्य सापिण्ड्यम् 'एकजाताः पृथक्क्षेत्रा' इत्यादिविशेषणोपादानादसमानजातीयापेक्षं त्रिपुरुषत्वमनेन वाक्येन शक्यते प्रतिपादयितुम् । एष एवार्थोऽनया स्मृत्या स्पष्टीक्रियते १५ "क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते॥"
। षड्भिस्त्रिभिरथैकेनादि च ॥ स्त्रीणां तु विजातीयानां भर्तृकालेन जीवति भर्तरि शुद्धिः । आह च "सूतौ मृते तु दासीनां पत्नीनां चानुलोमतः । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि पैत्रकम्।।" अन्ये पठन्ति " असवर्णासुतानामिति ” प्रथमं पादम् । यद्ययमस्ति पाठस्तदा २० पुत्राणामपि शूद्राणां पितृगृहे व्यवस्थितानां तत्परतन्त्राणां पितृजात्यपेक्षया दशाहादिरेव शुद्धि कालः । दासाश्चात्र वैतनिका गृह्यन्ते । ये तु गर्भदासास्तेषां विध्यन्तरं श्रूयते "कारवःशिल्पिनो वैद्या दासीदासं तथैव च।राजानौ राजभृत्याश्च सद्यःशौचा:प्रकीर्तिताः॥"इति
स्पर्शने चैवमेतेषां शुचित्वं विज्ञेयम् । न पुनर्दानभोजनादिक्रियासु यतैः कर्मनिमित्ता एने शब्दा अतः किंविपर्यये शुद्धिः किं सर्वाः क्रियाः प्रतिप्रसवा उत २५ काश्चिदेवाभ्यनुज्ञायन्ते । यतो राज्ञश्च कार्याविघातार्थमित्याकांक्षायां यान्येव कर्माणि तान्येव हृदयमागच्छन्ति । तथैव च समाचारः।
१ ड-क्ष-इत्यादिवत् । २ तपः -
For Private And Personal Use Only