________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । कथं पुनरत्र वयोभेदप्रतिपत्तिावता कृतमुण्ड इति संस्कारसंबन्धो गम्यते । कृतोपनयने चेत्यत्र श्रुतमेव । अत एव कृतचौडः कियन्तं कालमुच्यत इति नैव श्रूयते । उच्यते । दन्तनातानुसाहचर्यात्कृतमुण्डः काललक्षणार्थो विज्ञायते । स च कालोऽत्र प्रथमतृतीय इत्येषः । यद्यपि प्रथमे वर्षे वैकल्पिकं मुण्डीकरणं तस्मिंन्त्समाश्रीयमाणे " आ दन्तजन्मनः सद्य" इत्येतद्वाधितं भवति तदप्ययुक्तम् । कियानवधिः कृतमुण्ड इति । चशब्दात्कृतमुण्डे चेति कृतोपनये चेति लभ्यते । संस्कारान्तरप्राप्तौ व्यपदेशान्तरप्रवृत्तेः । एवं चैतया स्मृत्या एकवाक्यता भविष्यति “ आ दन्तजन्मनः सद्यः" इत्यत्रापि । “त्रिरात्रमावतादेशादिति” व्रतादेशग्रहणं कालोपलक्षणार्थमेव । न च ब्राह्मणस्यानित्योऽष्टमवर्षे एवं क्षत्रियवैश्ययोर्यश्च कालः तदा शद्रस्य न कश्चित्काल उक्तः स्यात् । तत्राप्यतीतशैशवस्य " परिपूर्ण सर्वोषाम्" इतिवचनात् । अतश्चा ष्टमाद्वर्षापूर्व १०. चतुर्णामपि वर्णानां सर्वाशौचं शूद्रस्यापि तस्य कालस्य सद्भावात् । यस्मिंस्तु पक्षे एकादशे वर्षे क्षत्रियवैश्ययोरुपनयनं लक्ष्यते तदा शूद्रस्य न कश्चित्काल उक्तः स्यात् । तत्राप्यतीतशैशवस्य परिपूर्णमर्वाक् त्रिरात्रम् । शैशवस्य निवृत्तिश्च स्मृत्यन्तरे " प्रागष्टमाच्छिशुः प्रोक्तः” अन्यैस्तु “ आ षोडशाद्भवेद्वालः" इति । येऽपि षोडशाद्वाल्यनिवृत्तिमाहुस्तेषामप्यष्टमादूर्व मासिक्येव शुद्धिः । एवं पठ्यते " ऊर्ध्वं तु षड्भ्यो १५ वर्षेभ्यः शुद्धिः शूद्रस्य मासिकी " । अन्यत्र पठितमष्टवर्षस्य मास इति ।
___ ननु वक्ष्यमाणेभ्य एव वाक्येभ्य एषा वयोमेदव्यवस्था लभ्यते । किमनेन दन्तनात इत्युद्देशेन । सत्यम् । सुखावबोधार्थम् ॥ १८ ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥
अर्वाक् संचयनादस्यां व्यहमेकाहमेव वा ॥ ५९॥ सापिण्ड्यलक्षणं वक्ष्यते । अक्सिंचय नादिति चतुरहोपलक्षणं वक्ष्यति । "आहिताग्नेः संचयनं चतुर्थ्याम्" इति वचनमस्ति । अयं च विकल्पो वृत्तस्वाध्यायापेक्षो वृत्तापेक्षो वा । तथाच स्मृत्यन्तरम् ___“एकाहाब्राह्मणः शुद्धो यस्तु ब्रह्माग्निसंयुतः। व्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनः"। तत्र त्रिवेदस्याग्निमत एकाहः । द्विवेदस्य तु व्यहम् । निर्गुणस्य दशाहम् । २५ गौतमेन पंठितं सद्यः शौचं तच्च विशेष एव ब्राह्मणस्य स्वाध्यायानिवृत्त्यर्थं तत्र क्रियान्तराणि उभयत्र दशाहानि कुलस्यान्नं न भुज्यते " दानं प्रतिग्रहो होमः
१फ- समये । २ याज्ञव० स्मृ. प्रा. २३ । ३ अ. १४ सू. ४१ ।
For Private And Personal Use Only