________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१०
मेधातिथिभाष्यसमलंकृता ।
[पंचमः
" आहारो ब्रह्मचर्य च निद्रा चेति त्रयं मतम् । मादकं च स्त्रियश्चैव युपस्तम्भनमायुषः ॥ ॥ इति ।
यस्तु तेन विनाऽपि शक्नोति जीवितुं तस्य निवृत्तिर्महाफला । प्रदर्शनार्थं चैतदशिष्टाप्रतिषिद्धविषयाणामन्यासामपि निवृत्तीनामेवमेव । यत्र विधानं पुरुषस्य प्रवर्तमानस्य प्रीत्यतिशयोत्पत्तिप्रयोजनमनिन्धं गर्हेत वा यतो निवृत्तिः फलाय यथा मध्वशनं संपन्नभोजनं राङ्कवं परिधानमित्येवमादि तथा च शिष्टसमाचारः व्यासश्च भगवानेवमेवाह । ये तु संसक्तितोऽशिष्टाप्रतिषिद्धा अपि यथा हसितकण्डूयनादयस्ततो निवृत्तिधर्माय ॥१६॥
प्रेतशुद्धि प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ॥ चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५७ ॥
चतुर्णामपीतिवचनं सामान्यविहिता धर्माः शूद्रस्य नेदृशं यत्नमन्तरेण भवन्तीति ज्ञापनार्थम् । प्रेतेषु जीवतां शुद्धिः । सुप्सुपेति समासः । प्रापणं चाप्रेतवन्निमित्ता शुद्धिरियं विशेषस्य । अतश्च यद्यपि शुद्धिवचनं प्रतिज्ञायते तथाऽप्यशुद्धिसापेक्षत्वाच्छुद्धेः शास्त्रप्रत्ययकारकत्वादुभयोरप्रतिज्ञाताऽपि प्रथममशुद्धिरुच्यते ॥ ५७ ।।
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ॥ अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५८॥
अनुजातो दन्तजाताद्वालतर इति स्मरन्ति । तथाविभागेनोद्देशमात्रमिदं यतस्तदपेक्ष आशौचकालभेदो भविष्यति । तद्यथा स्मृत्यन्तरे “ आ दन्तजन्मनः” तथा “ बाले देशान्तरस्थे च " इत्यादिना सद्यःशौचं श्रुतम् । बाल अजातदन्तो विज्ञेयः । एवं च नृणामकृतचूडानामित्येतदेकरात्रिकमाशौचं दन्तजातेऽप्यवस्थाप्यते । एवमेते स्मृतिविषयव्यवस्थया अविरोधिन्यौ बालविषये भवतः । नैशिकी च शुद्धिराचूडाकरणात् । यतो निवृत्तमुण्डकानां त्रिरात्रं वक्ष्यति । तच्च त्रिरात्रं प्रागपनयनात्परतः “शुद्धयेद्विप्र" इत्यादि । ये तु “दशाहं शावमाशौचम्" इत्येतान्पक्षान्वयोविभागेन वर्णयन्ति स्मृत्यन्तरात्समाचाराच्च व्युत्क्रमेण संबन्धयन्ति दशाहमुपनीतस्य अनुपनीतस्य चतुरहं
कृतमुण्डस्य व्यहं जातदन्तस्यैकाहमनुजातस्य सद्यःशौचिकादयस्तु विकल्पाः । एवं २५ व्यहचतुरहयोः कृतचूडस्य तेषां मते स्मृत्यन्तरप्रसिद्धो वृत्तस्वाध्यायापेक्षो न विकल्पः
प्रतिपादितः स्यात्तच्चोत्तरत्र दर्शयिष्यामः । सर्वव्यापारनिवृत्त्या मृत उच्यते । संपूर्वस्य तिष्ठतेापारोपरमदर्शनात् । बान्धवाः सपिण्डाः समानोदकाश्च । मूतके च पुत्रजन्मादौ तथोच्यते अशुद्धा बान्धवाः सर्व इत्येतेनास्य संबन्धः । १ अ-क-ख-ड-क्ष-शास्त्रप्रत्ययात्
For Private And Personal Use Only