SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । ४०९ देवाधर्चनशिष्टस्य शशादिमांसस्य भक्षणमनुज्ञातम् । ततो निवर्तमानोऽश्वमेधफलमश्नुते अश्वमेधस्य फलं “ सर्वान्कामानवश्यं सर्वाविजिती: " इत्यादि । न चात्र चोदनीयम् कथं महाप्रयासेन बहुधनव्ययेन च तुल्यफलता मांसनिवृत्तेः स्यात् । यत एषोऽपि संयमोऽतिदुष्करः । किंच लोकवत्परिमाणतः फलविशेषः स्यादित्ययं न्यायो जृम्भत एव । अतः फलविधौ न दोषः । वयं तु ब्रूमः । अर्थवाद एवायम् । यतो वर्षे शतं समा इति वाऽर्थवादपक्षे सुघटम् । न हि प्रतिवर्षमश्वमेधस्य विधेयत्वसंभवः । नापि वर्षे शतं तावतः कालस्याधिकारिणो जीवनाद्यसंभवात् । पुण्यं च फलं च पुण्यफलम् । समाहारद्वन्द्वः । षष्ठीसमासे ह्यसामर्थ्यम् ॥ ५३॥ फलमूलाशनमध्यैर्मुन्यन्नानां च भोजनः ॥ न तत्फलमवामोति यन्मांसपरिवर्जनात् ॥ १४ ॥ मध्येदवाहः । मुन्यन्नानि नीवाराद्यन्नान्यकृष्टपच्यजनितानि 1... अयमर्थवाद एव ॥ १४ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५५ ॥ नामधेयनिर्वचनमर्थवादः । मां स भक्षयिता । स इति सर्वनाम सामो पिक्ष १५ योग्येनार्थेन मतिराकांक्षीकरोति यस्य मांसमश्नाति ॥ १५ ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने ॥ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला॥ ५६ ॥ प्राणस्यान्नमित्यत आरभ्य यावदयं श्लोकोऽर्थवादसंघात एव द्वित्राः श्लोका विषयार्थाः । न मांसभक्षणे दोषो यथा “क्रीत्वा स्वयंवाऽप्युत्पाद्येति" ( श्लो० ३२) २० तथाऽयमपि श्लोकः । निवृत्तिस्तु महाफलेत्येतदत्र श्रूयते । बहुभिर्निन्दीकरैरीदृशः संस्कारो जातो यन्न किंचिन्मासमशितव्यम् । भूतानां वृत्त्यर्थमाह । न मांसभक्षणे दोष इति । देवार्चनशिष्टे ब्राह्मणकाम्यादिषु निमित्तेषु प्रागुक्तेषु न दोषः किंचिदशितुमिच्छन्ति । निवृत्तिर्न भक्षयामीति संकल्पपूर्विका महाफला । फलविशेषाश्रुतेः स्वर्गः फलमिति मीमांसकाः । एवं मद्ये क्षत्रियादीनां मैथुन तु सर्ववर्णानां दिवोदक्यापर्वकालादन्यत्र । २५ अल्पस्वल्पा प्रवृत्तिरेषा शास्त्रीया भूतानां शरीरस्थितिहेत्वर्था प्रवृत्तिः तथा चायुर्वेदकृत् । १ अयं श्वोकस्तहीका च फ पुस्तके एव दृश्यते । अ-क-ख-ड-क्ष-पुस्तकेषु तु श्लोको न विद्यते । टीका तु 'अयमप्यर्थवाद एव' इति वर्तते । २ अ-क-ख-ड-क्ष-निन्दायां करेरीद्दशः ३अ-क-ख-ड-क्ष-किंतुमिच्छन्ति For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy