________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४०८
मेधातिथिभाष्यसमलंकृता ।
[ पंचमः
I
प्रायश्चित्तं हतानां रसास्वादकस्य " जग्ध्वा मांसमभक्ष्यं चेति " (अ. ११ श्लो. १५२) । यदि प्रयोजकत्वेन कर्तृत्वमुक्तं तदपि नैवास्ति । इदं हि तस्य लक्षणम् । प्रेषणाध्येषणाभ्यां तु यः स्वतन्त्रस्य चोदकः स कर्ता स एव हेतुश्च मुख्योऽपर इति । वधको हि जीवनप्रयुक्त्या प्रवर्तते मांसविक्रयेण जीविष्यामीति न तु खादकेन विनियुज्यते । अथ ५ तत्समर्थाचरणं प्रयोजकत्वम् । योऽयं क्रियां कर्तुमध्यवसितस्तत्रानुकूल्येन यः संविधित्सुः स प्रयोजक इति । एतदप्यत्र नैवास्ति, साधनोपनिधानं त्रसतः पशोरस्वतन्त्रीकरणं खगोपनयमित्येवं संविधानशब्दवाच्यं युक्तम् । तेन विना क्रिया न निष्पद्यते । अथ यदर्थः क्रियारम्भः स प्रयोजकश्चेति चेन्माणवकमध्यापयतीत्यध्यापक हेतु कर्तृसंज्ञाप्रतिलम्भो न ह्यध्ययनमध्यापयति । न चासौ किंचिदुद्दिश्य हनने प्रवर्तते । येनास्य १० तदर्थनिरूपणाय मक्षणेऽनर्था प्रवृत्तिः स्यात् । सर्व इमे स्वभूत्यै यतन्ते न केन कश्चिस्परोऽनुग्रहीतव्य इति मुहूर्तमप्यवतिष्ठत इत्यपि पूर्णकामः । अथ स्वार्थ प्रवृत्तस्य भक्षयितारमन्तरेण प्रवृत्तिरनर्थिका तस्मिंस्तु सति फलवती फलं च प्रयोजकम् । तच्च खादकाधीनमिति पारंपर्येण खादकः प्रयोजक इति । एवं तर्हि यो द्वेषाद्वध्यते स हन्तुः प्रयोजकः स्यात्ततश्च हन्यमान एव हन्ता संपद्यते । न हि द्वेषेण विना हन्तृत्वोपपत्ति१५ रिति । तथा ब्रह्महत्यायामपि सर्वस्वं दद्यात्पातकसंप्रयोजकम् । न हि प्रतिग्राहयितारमन्तरेण प्रतिग्रहोपपत्तिस्ततश्च प्रतिग्राही न केवलं प्रत्यवेयादपि तु दाताऽपि । रूपवती च स्त्री स्मरशरदह्यमानहृदयेन रागिणा दर्शितस्पृहातिशयेन शीलं रक्षन्ती प्रत्यवेपात् तस्मान्नेदं प्रयोजकलक्षणम् । तौ हि वधकखादकौ स्वार्थप्रवृत्तौ नष्टाश्वदग्धरथवदितरेतरोपकारमनुभवन्तौ न पुनरन्यतरप्रयोजकस्मृतिशङ्कया च "शूद्रविट्क्षत्रविप्राणाम् " ( अ. ८ २० श्लो. १०४ ) इत्यत्र श्लोके निपुणमेन्निर्णीतम् ॥ ५१ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ॥
अनभ्यर्च्य पितृन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ ५२ ॥
अधिकपुष्ट्यर्थं यो मांसमश्नाति तस्येयं निन्दा । न तु रोगोत्पत्तिभयाशङ्कया । र्यंत आह । यो वर्धयितुमिच्छतीति । तस्याप्यनभ्यर्च्य पितृन्देवान् । न तु रोगहेतो२५ त्स्वचनमकुर्वतोऽपि कथंचिदसंभवान्न दोषः ॥ ५२ ॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ॥
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५३ ॥
फ - अध्यापने २ - नष्टाश्वदग्धरथन्यायः । २ अ-क-ड-अत ।
१
For Private And Personal Use Only