________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०७
अध्यायः ]
मनुस्मृतिः। सर्वमांसस्य भक्षणात्सर्वस्याप्रतिषिद्धस्यापि । किंपुनः प्रतिषिद्धस्य । अर्थवादोऽ. यम् । न पुनस्तत्वतः अशुच्येव मांसं ज्ञेयं न हि तदशुचित्वविधिपरं वाक्यम् ॥ ४९ ॥
न भक्षयति यो मांसं विधि हित्वा पिशाचवत् ॥
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५० ॥ विधिदेवार्चनं तद्धित्वा यो न भक्षयति किंतर्हि विधिना भक्षयति स ५ लोकस्य प्रियता प्राप्नोति प्रियः सर्वस्य भवति । व्याधिभिश्च कृशदुर्बलादेर्मीसमश्नतो व्याधिरुपजायते । तेनापि विधिनैवाशितव्यम् । तथा भक्षयन व्याधिभिश्च न पीड्यते । अन्यथा अश्नन्नपि मांस पीड्यत एव व्याधिभिः । पिशाचवदिति पिशाचास्तिर्यग्जातिविशेषास्ते विधिमनपेक्ष्य मांसमश्नन्ति । ततोऽन्योऽपि तथा भक्षयन्पिशाचसदृशो भवतीति निन्द्यते ॥ ५० ॥
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ॥
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ५१ ॥ अन्येन हन्यमानं स्वप्रयोजनतो यद्यन्योऽनुमोदते साध्वयं हन्ता करोतीत्यनुमन्ता । विशसिता हतस्याङ्गविभागकारः । उपहर्ता परिवेषकः । खादक इत्येते सर्वे घातकाः । ___ अघातकेषु खादनसंस्कारविक्रयादिकर्तृषु घातकत्वेऽध्यारोपिते निन्दा न पुनस्तत्वत एते घातका एव । लौकिकी हि वधक्रिया प्राणत्यागफला । तस्य कर्ता घातकः स्मृतितो गम्यते । स्वतंत्रः कर्तेति विशेषशास्त्रादिना यः प्राणवियोजनं प्राणिनां करोति स हन्तोच्यते । क्रयविक्रयाद्याश्च क्रियास्ततोऽन्या एव । ननु चेयमपि स्मृतिरेव । एते अनुमन्तृप्रभृतयो घातका इति नेदं शब्दार्थसंबन्धे प्रमाणम् । किंतर्हि ? धर्माधर्मयोरैभियुक्ततरो हि । तत्र २० भवान्पाणिनिः मन्वादयश्च लोकप्रसिद्धैः पदार्थैर्व्यवहरन्ति न शब्दार्थसंबन्धविधि स्मरन्ति । प्रयोक्तारो ह्येते न स्मर्तारः ।
ननु च " तमाचार्य प्रचक्षते " इत्यादेः स्मरन्त्येते । सत्यम् । न तत्र शास्त्रस्मृतिविरोधः । न च तेषां वाक्यानामन्यत्प्रयोजनमस्ति । इह तु गौणेनापि प्रयोजनेनार्थवादतयाऽप्युपपत्तेने घातकत्वं शक्यमवसातुम् । येऽप्याहुर्भक्षकैश्चेन्न विद्यते वधकोऽपि २५ न विद्यत इति भक्षणप्रयुक्त एव वधः प्रयोजकश्च कर्ता स्मयते । ततो मुख्यमेव घातकत्वमतो घातकप्रायश्चित्तमेव खादकस्य युक्तमिति ब्रूमः । पृथक्
१ फ-व्याधिभिर्न । २ ख-स्त्रभियुक्ततरो। ३ अ-क-ड-भक्षतश्च ।
For Private And Personal Use Only