SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [पंचमः यो हिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ॥ स जीवंश्च मृतश्चैव न कचित्सुखमेधते ॥ ४५ ॥ अकारोऽत्र प्रतिषेधार्थीयः प्रश्लिष्टो द्रष्टव्यः । अहिंसकानां च प्रतिषेधात्सर्पव्याघ्रादीनामप्रतिषेधः ॥ ४५ ॥ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ॥ स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ४६॥ बन्धनवधा एव क्लेशाः । अथवा वित्ताशनादयः । तान्यो न कर्तुमिच्छति वित्ताशनमेव येनं न कृतं तद्विषयेच्छैव यस्य निवृत्ता न केवलं पीडां न करोति यावद्धितं प्रेप्सितुमिच्छति सर्वस्य स सुखमत्यन्तमश्रुते ॥ ४६ ॥ यद्वयायति यत्कुरुते रतिं बघ्नाति यत्र च ॥ तदवामोत्ययत्नेन यो हिनस्ति न किंचन ॥ ४७ ।। यच्चिन्तयति शुरुकमहणादि यत्र च रतिमभिलाषं बनात्याभिप्रेत्य वस्तुनि तद. यत्नेन स्वल्पेनैव कालेनावामोति । यत्तु कुरुते कर्मणा तत्कर्मनिष्पत्तिसमनन्तरमेवाविघ्नेन प्राप्नोति ॥ ४७ ॥ नाकृत्वा प्राणिनां हिंसा मांसमुत्पद्यते कचित् ॥ न च प्राणिवधः स्वग्यस्तस्मान्मांसं विवर्जयेत् ॥ ४८॥ सर्वस्य हिंसाप्रतिषेधश्लोकसंघातस्य मांसभक्षणशेषतां दर्शयति । यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते । हिंसा चातिशयेन दुःखावहा । तस्मान्मांसं विवर्जयेत् । ननु च स्वयं मृतानां भवत्येव मांसं किमिदमुच्यते । नाकृत्वेति ।। अर्थवादोऽयम् । स्वयं मृतानां च मांसं रोगहेतुत्वादप्राप्तमेव । न ह्यदत्वा मांसं भक्ष्यते । न च रोगहेतोदान मास्त। उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात्कर्तृव्यपदेशसमानकर्तृकत्वं भवत्येवाविरुद्धम् । अथवोत्पद्यत इति न च स्वर्ग्य इति न स्वर्गानुत्पत्तिहेतुमात्रमाभप्रेतमपि तु नरकादिदुःखहेतूनाम् ॥ ४८ ॥ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ॥ २५ असमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ४९ ॥ . अशुचिस्थाने कुक्षौ गर्भवृद्धिः शुक्रशोणिताभ्यां वाऽशुचिभ्यां प्रभावः । तथा वधबन्धौ शरीरवतां तत्कृतौ। एतत्सर्व प्रसाक्ष्य निपुणबुद्ध्या तत्वतो निरूप्य निवर्तेत , फ-वित्र । २ फ-अग्राह्यमेव । ३ अ-क-ड-स्वर्गानुत्पत्ति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy