SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ४०५ गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ॥ नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ४३ ॥ अवेदविहितहिंसाप्रतिषेधोऽयम् । न च वेदविहिताऽभ्यनुज्ञायते । न च गुरौ वसतो ब्रह्मचारिणोऽरण्ये च तपस्यतोऽन्या काचिद्धिंसाऽस्ति । अवकोणिनो ब्रह्मचारिणः स्यादपि वानप्रस्थस्य तु नैवास्ति । ब्रह्मचारिणोऽप्यात्मोपेक्षणं नैवेष्यते । अतोऽयं विधिरेव श्राद्धे । गृह ५ इत्यनुवाद एव । यदि चायं विधिः स्यादरण्य आपद्यपीति किमालम्बनमेतत्स्यात् । न च वानप्रस्थस्य साग्निकस्यापि पशुयागोऽस्ति " पुरोडाशाश्चरूंश्चैव'' इत्यत्र दर्शयिष्याम इति केचित् । उपाध्यायस्त्वाह युक्तं ब्रह्मचारिणो वानप्रस्थस्य तु “ अपराजितां पाऽऽस्थाय" इत्यादिनाऽऽत्मत्यागोऽपि विहितस्तस्य नास्ति जीवितार्था हिंसेति स्फुटतरं तत्रैव निरूपयिष्यते ( अ. ६ श्लो. ६१ )। ननु चापद्ययं प्रतिषेध उच्यते । तत्कृतस्तत्रैवानुज्ञानं व्याख्यायते । सत्यम् । अन्यथा न किंचिदनेन कृतं स्यात् । अर्थवादार्थमिति चेदर्थवादस्याप्यालम्बनमन्वेषणीयम् । अतो नापद्ययं प्रतिषेधो विधिश्चापद्यविरुद्धः । बहुभेदादापदाम् अल्सीयस्यामापदि मासिकमर्धमासिकं वा भोजनं भविष्यतीति बुद्ध्या प्रवृत्तिर्निषिध्यते । यदा त्वेषा बुद्धिरधुनैवानश्नन्न नीवामि यदा वाऽभिमुखागत उद्यतशस्त्र १५ आततायी तदाऽऽपद्यनुज्ञा । एवं सर्वत एवात्मानं गोपायेदिति श्रुतिरनुगृहीता भवति ॥४३॥ या वेदविहिता हिंसा नियताऽस्मिश्चराचरे ॥ अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ४४ ॥ वेदविहितो यः प्राणिवधः सोऽस्मिञ्जगति चराचरे स्थावरजङ्गमे नित्योऽनादिः । यस्तु तन्त्रादिः सोऽन्वयव्यतिरेकभ्रान्त्या इदानींतनः । अतो वैदिकीमहिंसामेव विद्यात् २० अमुत्र प्रत्यवायाभावात् । अहिंसेति कार्यत उच्यते न स्वरूपतः । ननु च सैव हिंसारूपा। अभेदात् कथं कार्यो भेदः । उच्यते । वेदाधर्मो हि निर्वभौ धर्मस्याधर्मस्य च यत्प्रथनं तद्वेदादेव पौरुषेयाणामप्रामाण्यात् । वेदश्च तस्या एवाभ्युदयहेतुत्वं क्वचित् ज्ञापयति । स्वरूपाभेदोऽपि नास्ति । क्रत्वर्थपुरुषार्थत्वेन भेदादाशयभेदेन प्रवृत्तेः । लौकिक्यां मांसीयतो द्विषाणस्य वा प्रवृत्तिः वैदिक्यां तु शास्त्रेण चोदितमिदं क्रत्वर्थ- २५ मिति । निर्बभौ निःशेषेण भातः प्रकाशतां गत इति यावत् ॥ ४४ ॥ १ अ-क-ड-अतश्चापद्ययं प्रतिषेधो विधिश्चाविरुद्धः । २ फ-न ३ अ-क-ड-तस्यामापदि । ४ अ-क-ड-विषहिंसारूपाभेदात् । ५ अ-ड-प्रथमं; फ-प्रणयनम् । ६ ड-वेदतश्च; फ-वेदस्य स्वत एव ७ फ-मांसं यतो-च For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy