________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय ] मनुस्मृतिः ।
४.३ भ्रान्तिमात्रम् । असकृद्वयभिचारात् । अतोऽयं श्लोको न्यायप्राप्तार्थानुवाद एव सौहार्दादाचार्येण पठितः ॥ ३७॥
यावन्ति पशुरोमाणि तावत्कृत्वोह मारणम् ॥
वृथापशुनः प्रामोति प्रेत्य जन्मान जन्मनि ॥ ३८ ॥ तावतीजन्मनामावृत्तीर्मारणं प्राप्नोति । वृथापशुघ्नः श्रुतिस्मृत्योरचोदितं पशुवधं ५ यः करोति । तच्च प्रकरणान्महानवम्यादिषु लौकिकैर्यक्रियते । पशुघ्न इति कप्रत्यये छान्दसं रूपम् ॥ ३८ ॥
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ॥
यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ३९ ।। नायमनन्तरोक्तो दोषः श्रुतिस्मृतिचोदिते वधे यज्ञाङ्गभूते या भृतिस्तन्निवृत्त्यर्थमेव १. स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः । स्वयमेवेत्यर्थवादः । अस्यै जंगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः । भूत्यै भूतिर्विभवः पुष्टिः स्फीतिः । तस्मात्तत्र यो वधः सोऽवधो विज्ञेयः । हिंसाजन्यस्य पापस्य निवृत्तेरेवमुच्यते ॥ ३९ ॥
ओषध्यः पशवो वृक्षास्तिर्यश्वः पक्षिणस्तथा ॥
यज्ञार्थं निधनं प्राप्ताः प्रामुवन्त्युच्छ्रितीः पुनः ॥ ४०॥ १५ कथं पुनर्यज्ञे हिंसादोषो नास्ति । उच्यते । हिंसा हिंस्यमानस्य महानपकारः । प्राणवियोगेन पुत्रदारधनविभवादिवियोगेन सर्वानर्थोत्पत्तर्दुष्कृतस्य च समनन्तरं नरकादिफलविपाकस्य प्रत्यासत्तेः । यज्ञे तु हतानामुपकारो नापकारः नरकादिफलानुत्पत्तेः । यतो यज्ञे निधनं विनाशं गता उच्छ्रितीरुत्कर्ष जातितो देवगन्धर्वयोनित्वं द्वीपान्तरेषत्तरकुरुप्रभृतिषु वर्षान्तरे वा जन्म प्राप्नुवन्ति ।
२. अर्थवादश्वायम् । न ह्यत्र विधिः श्रूयते नाप्नुवन्तीति वर्तमानोपदेशात् । न चार्थवादात्प्रतितिष्ठन्तीतिवद्विधिप्रतिपत्तियुक्ता । विध्यन्तरस्याभावादसंभवाच्च सर्वोऽयमविधिमांसभक्षणप्रतिषेधशेषः । ऐहेंलोकसंपाद्यतयाऽप्ययं प्रतिषेधो " न त्वेव तु वृथा हन्तुं पशुमिच्छेदिति " । यच्चाभ्यनुज्ञान " यज्ञार्थ पशवः सृष्टा ” इति तत्सर्व भक्षणप्रतिषेधतया प्रतीयते । तथा च वक्ष्यति " नाकृत्वा प्राणिनां हिंसाम्" इत्यादि ।
न चात्र विधेरस्ति संभवः । न तिरश्चामधिकारः संभवति विशेषविज्ञानामावात् ।
१ अ-क-उ-यागं पशुवधं । २ अ-क-ड-अनन्तरोक्तो । ३ अ-क-ड-अनिवृत्ते । ४ अ-क-ड-जुह्वता । ५ अ-क-ड-श्लोकसंपाद्यतया।
For Private And Personal Use Only