SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४०२ मेधातिथिभाष्यसमलंकृता । [ पंचमः च छागादयो मासाशिनः । अथवा तत्कृतेन पापेन कन्याद्भिरप्यद्यमानस्तैरद्यत इत्यु च्यते ॥ ३३ ॥ Acharya Shri Kailassagarsuri Gyanmandir न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ॥ यादृशं भवति प्रेत्य वृथामांसानि खादतः || ३४ ॥ प्रसिद्धार्थः श्लोकः ॥ ३४ ॥ नियुक्तस्तु यथान्यायं यो मांसं नाति मानवः ॥ स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ ३५ ॥ जन्मानि अवश्यम् । प्राणात्ययसंभवे देवार्चनं यो न करोति अथ च मांसमश्नाति स दुष्यत्येव ॥ ३५ ॥ १० असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विपः कदाचन ॥ मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः || ३६ ॥ प्रोक्षणादयः पशुबन्धे मन्त्रवन्तः संस्कारा विहितास्ते येषां क्रियन्ते पशूनां वैदिकयागशेषाणां मासमद्यात् । सीतायज्ञादिषु च सत्यपि सामयाचारिकयागशेषत्वे मन्त्रसंस्काराभावादभक्ष्यता । शाश्वतं शाश्वतो नित्यो वैदिक इत्यर्थः । आस्थित १५ आश्रितः ॥ ३६ ॥ कुर्याद्घृतपशुं सङ्गेर्कुयित्पिष्टपशुं तथा ॥ न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ३७ ॥ यद्येषां बुद्धिः स्यात्सीतायज्ञखञ्जिकायज्ञखण्डिकायागादिषु समाचारप्रमाणेषु पशुवधः फलकामस्य त्याज्यः । दृष्टा हि पशुवधोपयाचितकेनातिशयवती सस्यसंपत्तिरिति २० तन्निषेधार्थमाह । सङ्गे प्रस्तावात्पशुवधप्रसङ्गे घृतपशुं कुर्यात् घृतमेव कुर्यात् । पाना यष्टव्ये तत्स्थाने घृतेन यजेत देवताः । तद्धि सामान्येन यागद्रव्यम् । अथवा पिष्टप पिष्टमय पशुप्रतिकृतिं कृत्वा देवताभ्य उपहरेत्पिष्टेन वा पुरोडाशादि कृत्वा । कथमयं वृथा पशुवधः। उच्यते । शिष्टानां समाचारः प्रमाणम् । ननु स्त्रीशूद्रजनानामवैद्यत्वान्नात्र वेदमूलता शक्या कल्पयितुम् । देवताराधनार्थं न ह्येतदाचरन्ति । न च देवताराधनार्थानि २५ वैदिकानि कर्माणि गुणत्वेन देवताश्रुतेः । अन्वयव्यतिरेकमूलतां चात्रेच्छन्ति दृश्यते पशुवधोपयाचितकेन फलसंपत्तिरिति मन्यमानाः । अतो न वेदमूलता। अन्वयव्यतिरेकादपि 1 १ फ-तत्कृतेनापायेन । २ अ-क-ड- चण्डिकायज्ञ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy