________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
मेधातिथिभाष्यसमलंकृता ।
[पंचमः
"स्त्रीमद्यनित्याःक्षयिणःश्रमव्याध्या च कर्शिताः । नित्यमांसरसाहारा आतुराश्चापि दुर्बलाः"। अप्रोक्षितस्यापि छागमांसस्य देवताधर्चनं तु तैरवश्यं कर्तव्यम् । असंभवे तु कस्मिंश्चिदहनि न दोषः ॥ २७॥
प्राणस्यानमिदं सर्वं प्रजापतिरकल्पयत् ॥ स्थावरं जङ्गमं चैव सर्व प्राणस्य भोजनम् ॥ २८ ॥
प्राणः कौष्ठ्यो वायुः जीवबीजभूतः पञ्चवृत्तस्योदानादिकस्य शरीरस्थित्यर्थम् । इदं सर्व जगत्प्रजापतिरेकत्त्वेनाकल्पयत् । इदमिति सामान्यतो निर्दिश्य विशेषणं निर्दिर्शति । स्थावरं जङ्गममिति । अतो हेतोः सर्व प्राणस्य भोजनम् । तिर्यपक्षिमनुष्यसरी
सृपावस्थहेतुमद्भेदनिर्देशात् द्वितीयं सर्वग्रहणमपुनरुक्तम् । यतः प्रजापतिना सर्वमापदि १० प्राणस्य कल्पितम् । अतः सर्वमेतस्य भोजनम् । तथा च प्राणसंवादोपनिषदि श्रूयते (६।२।१)"सहोवाच किं मेऽन्नं भविष्यतीति।यदिदं किंचित् आऽश्वभ्य आ कीटपतङ्गेभ्य" इति
चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः
अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ २९ ॥
चराश्चरणपतनरणोत्साहयोगिनः श्येननकुलादयः तेषामचराः सर्पकपोतादयः १५ अन्नम् । एवं दंष्ट्रिणां सिंहव्याघ्रादीनां अदंष्ट्रिणः रुरुपृषतादयो मृगाः । अहस्ताः
सर्पमत्स्यादयः सहस्तानां नकुलनिषादादीनाम् । शूराणां महोत्साहयुक्ताना जीवितनिरपेक्षाणां भीरवः प्रियजीविताः । अल्पसत्वा अन्नत्वेन हन्यन्ते ॥ २९ ॥
नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि ॥ धात्रैव सृष्टा ह्याद्याश्च प्राणिनीऽत्तार एव च ॥ ३० ॥
अत्ता भक्षयिता। आद्यान्माणिनः अत्तुं शक्यान् प्रतिदिवसं भक्षयन्न दुष्यति। धात्रैव प्रजापतिना अत्तार आद्या उभयेऽपि सृष्टास्तस्मात्प्राणात्यये मांसमवश्यं भक्षणीयमिति त्रिश्लोकी विधेरस्यार्थवादः ॥ ३० ॥
यज्ञाय जग्धिर्मासस्येत्येष दैवो विधिः स्मृतः॥
अतोऽन्यथाप्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ ३१ ॥ २५ यज्ञार्थ मांसस्य पिण्डप्राशिवादिजग्धिरशनम् । एष दैवो विधिदैवरेतद्विहितम् ।
अन्यथा तु मांसाशी यतः शरीरपुष्टयर्थकमांसाशने प्रवृत्तिः स राक्षसो विधिः। पिशाचानां मांसभक्षणे स्थितिरिति निन्दा ॥ ३१ ॥ १फ-कौक्षो । २ अ-क-ड निर्दिश्यते । ३ फ-अवस्था । ४ फ-त्वं भविष्यसीति । ५ अ-क-ड-शरणोत्साह- । ६ अ-क-ड-दश्यते ।
For Private And Personal Use Only