________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
३९९ यमपि पूर्ववदनुवादः श्राद्धे आविज्ये च । ननु चाविज्ये उक्तमेव इडादिभक्षणं यजमानस्य तत्र शास्त्रनिबन्धनो नियमो नविजाम् । सत्यम् । किंतु ऋत्विनो यदि न भक्षयन्ति ते प्रवाद्यन्ते । अविदितेन अदृष्टेनापि दोषेण युज्यन्ते । ननु तेषां भक्षणमधिकृतानां भासतां न हि ते कर्मफलेन युज्यन्ते । भृत्यादिहि परिक्रीतानविहितान्पदार्थाननुतिष्ठति । विहितश्च “ यजमानपञ्चमा इडा भक्षयन्तीति । तेषां भक्षणतोऽस्या- ५ भ्युपगत्यात्विज्यानां नियतं भक्षणं तदा तेनानूद्यत इति युक्तम् । न हि श्राद्धभुजामृत्विजां च भक्षणे शास्त्रीययोगो यनमानस्यैवानुवादः किमर्थ इति चेन्नानुवादः प्रयोजनमपेक्षते । किंतर्हि प्राप्तमस्ति चात्र । उच्यते । अत्रापि यदा गोपेन गोवधपूजाऽ. भ्युपगता तदाऽवश्यमशितव्यम् । तदनुग्रहार्थमसौ मधुपर्कपूनां प्रतीच्छति । अतः पूर्वा तेन क्रिया संपादनीया । अन्यथा प्राक्रमिकः स्याच्च परिपूर्णेन मधुपर्केण तदनुः १० ग्रहासंपत्तेस्तस्मिन्प्रतिषिद्धमांसाशने मधुपर्क पूजाविज्यं च प्रथममेवाभ्युपगन्तव्यम् । ब्राह्मणभोनने च । ब्रह्मचारिणस्तु व्रतवदित्यनुज्ञादानमेव ग्राह्यं मांसस्य ' प्राणानामेव चात्यये' प्रकृतत्वाद्देवाद्यर्चनमन्तरेण । अभक्ष्यमाणे व्याधिना क्षुधा भोजनान्तरासंभवे जीवनाशशङ्कायां गोजावि भक्षयितव्यम् । सर्वत एवात्मानं गोपायेदित्येतच्छ्रुतिमूलोऽयं नियमः । अतश्चेदृशे निमित्ते मांसमश्नन्नात्महा संपद्यते । आत्मवधश्च " सर्वत १५ एवात्मानं गोपायेत्तस्मादुह न पुरायुषः स्वः कामी प्रेयादलोक्यं ह्येतद्भवतीत्यादि" श्रुतिभिमन्त्रार्थवादैश्च तैर्दोषवान्नेति ज्ञापितः । तथाहि मन्त्रः ( ईशावास्योपनिषद् ३)
" असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते त्याभिगच्छन्ति ये के चात्महनो जनाः " ॥ इति
ब्रह्मचारिणोऽपि प्राणात्यये भक्षणमिष्यते । तस्यैवै बाल्याद्यवस्थानिमित्तं वाचनिकं प्रायश्चित्तं भविष्यतीति । " ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कदाचनेति " । २० क्षुधा तु प्राणात्ययाशङ्कायां प्रतिषिद्धमांसाशनमपीति व्यासः (ब्र. सू. अ. ३।४।२८)। जाय॑नीनिदर्शनेनैकाहिकं चेष्यते । एतावता कान्तारं अतीतव्याधौ तु न शक्यमेतत् ज्ञातुमवश्यमशितेनानेन जीवतीति । तत्र ने प्रतिषिद्धग्राम्यकुक्कुटादिमांसभक्षणमिष्यते । प्रोक्षणं देवाभ्यर्चनरहितस्य तु प्रकृतत्वादस्त्यनुज्ञानम् । व्याधेश्च न केवलमुत्पन्नस्य २५ निवृत्त्यर्थं यावत्कृशक्षय्यातुरदुर्बालादीनां सर्वकालं मांसाशनं नियमत इष्यते ।
१ अ-ड-प्रतिषिद्धं । २ अ-क-ड-जीवितो। ३ फ--तस्यै। ४ फ-जानातीति । ५ फ-तु ६फ-सहितस्य।
For Private And Personal Use Only