SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [पंचमः आयेन श्लोकार्थेन पूर्वप्रकरणमवच्छिनत्ति । तदेतदनन्तरमनुक्रान्तं प्रकरणमेव द्विजातीनां न शूद्राणामिति उत्तरं तु यद्वक्ष्यते तच्छूद्राणामपति प्रकरणव्यवच्छेदप्रयोजनम् । अतश्च मांसभक्षणे प्रकारो वक्ष्यते । यच्च तद्वर्जनेन फलं तच्छ्द्रस्यापि भवतीति । अन्यथा "अभक्ष्याणि द्विजातीनाम् " (श्लो.५) इत्यधिकारालशुनादिष्वथ शूद्रस्य मांसभक्षणेऽपि ५ कामचारः स्यात् । यद्येवं देवाद्यर्चने शिष्टस्य मांसस्य भक्ष्यता वक्ष्यते ( अग्रे श्लो. ३२) "देवान्पितॄश्चार्चयित्वा खादन्मांसं न दुष्यतीति" देवाद्यर्चनं मेध्येन मांसेन ।ये च द्विजातीनां प्रतिषिद्धा मृगशकुन्तास्तेऽमेध्याः । अतश्च तेषां मांसेन देवार्चनासंभवादतच्छेषस्य भक्ष्यत्वादन्येऽपि प्रकरणभेदा यथा ब्राह्मणादीनां मृगपक्षिणः प्रतिषिद्धास्ते शूद्रस्यापि प्रकारान्तरेण प्रतिषिद्धा भवन्ति । तत्र प्रकरणभेदेन केनचिदुच्यते । लशुनादिप्रतिषेधः १० शूद्रस्य न भवति । अस्ति तावत्प्रकरणभेदेन प्रयोजनं लशुनादिप्रतिषेधे शूद्रस्याधिकारो मा भूदिति मांसेऽपि देवाद्यर्चने गृहस्थस्याधिकारदिगृहस्थस्य शूद्रस्य यथाकाम्यम् । ननु च पाकयज्ञे शूद्रस्याधिकारतः स्थितस्य भोजनं गृहस्थानां च विहितम् । न च लशुनादिभिः पाकयज्ञाः क्रियन्ते । ततश्च नापि शूद्रस्य यथाकाम्यं लशुना दयो भक्ष्याः स्युः । को दोषः । द्विजातिग्रहणमनर्थकम् । परिदृतमेतदगृहस्थस्य प्रोषि१५ तस्य वा कामचारः । न च गृहस्थेन यदहुतं तन्न भोक्तव्यम् शेषभुग्भवेदित्यस्यायमर्थः अकृतवैश्वदेवक्रियेण न भोक्तव्यम् । तत्र यस्यैव यागसाधनता द्रव्यस्य तदेव मेध्यं होतव्यम् । अन्ये तु भोजनकाले कुतश्चिदात्त्य मध्यगेहे वा भुज्यते तच्च हुतशेषमपि न प्रतिषिद्धं मांसे तु पुनर्वचनान्नियमः । न कदाचिदेवानुपयुक्तं भोज्यमिति । यदि चातुर्वर्ण्यस्यात्राधिकारस्तदा यद्वक्ष्यति परस्तात्तु शुद्धविधौ चतुर्णामपि वर्णानामिति तदन२० र्थकम् । तत्रैव तस्य प्रयोजनं वक्ष्यामः । अथ श्वमांसाद्यपि शूद्रस्य भक्ष्यं प्राप्नोति द्विजातिग्रहणात्पूर्वत्र । किं त्वेकादशे विड़राहखरोष्ट्राणामित्यादिश्लोकत्रयनिर्दिष्टाः शूद्रस्यापि न भक्ष्या इति ज्ञापकं दर्शयिष्यामः ॥ २६ ॥ प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ॥ यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ २७ ॥ अग्नीषोमीये पशौ हुतशिष्टं मांसं लक्षणया प्रोक्षितमुच्यते । ननु प्रोक्षितशब्दो __ यौगिक उक्षसेचन इत्यस्य धातोः प्रक्षालनक्रियानिमित्तकः । तथा च प्रोक्षणीरासादय घृतं प्रोक्षणीयमिति प्रोक्षणीभिरुद्वेजिताः स्थ इति सर्वत्र क्रियायोगात्प्रयुज्यते । यद्यासेचनसाधनं तत्र कुतो वैदिकसंस्कारनिमित्तकानां स्वसंबन्धे पशुलक्षणाद्वारेण मांसे प्रवर्तते । १ फ-एतत् । २ फ-शूद्राणाम् । इत्युत्तरं तु । 3 अ-ड-यच । । अ-ड-केचित् । ५ गौतमीये अ. २ सू, १।६ फ-भुञ्जते । ७ अ-क-ड-युक्ते । फ-न कदाचिदेवानुपयुक्तं । ८ अ-क-ड-यदा यद्वा यद्वक्ष्यति । ९ अ-क-ड युद्धविधौ । १० अ-क-ड-यद्यरोचनसाधनं । २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy