________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः
वा यथा महाभारतादौ वर्णितम् । न चात्र निर्बन्धः कर्तव्यः ऋषीणां जात्यन्तरत्वे गन्धर्वादिवत्कथं यागेष्वधिकार इति । यतोऽयमर्थवादो येनकेनचिदालम्बनेन प्रतीयते । ब्रह्मक्षत्रसवाः ब्रह्मक्षत्रिययज्ञाः ॥ २३ ॥
यत्किंचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् ॥ तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ॥ यवगोधूम सर्व पयसचैव विक्रिया ॥ २५ ॥
भक्ष्यं यत्किंचित्स्नेहसंयुक्तं । भोज्यमोदनादि । भुक्तिभुज्योरेकार्थत्वेऽपि पृथगुपादानाद्विषयभेदोऽयं प्रतीयते । अगर्हितं शुक्ततामनापन्नं तत्पर्युषितमप्याद्यम् । राज्यन्तरेपर्युषितमुच्यते । पूर्वेद्युः सिद्धमय परेद्युः पर्युषितं भवति । स्नेहसंयुक्तमिति एवं संदिह्यते । किं यत्स्नेहसंयुक्तं सत्पर्युषितं रसमिश्रशाकादि तत्पर्युषितमशितव्यम् । उत शुक्तस्यापि पर्युषितस्य भक्षणम् । काले स्नेहसंयोगः कर्तव्यः । भक्षापूपाद्यपि पर्युषितं १०भोजनकाले स्नेहेन संयोज्य भक्षयितव्यमिति । अतः संदि यावता यत्स्नेहयुक्तानां भक्ष्यतोच्यते तत्पर्युषितमाद्यामिति । उद्दिश्यमानं स्नेहसंयुक्तमिदं निपतनं न पुनर्विधेयार्थे न हि तच्छब्दसंवन्धोऽस्य श्रुतो यत्पर्युषितं स्नेहसंयुक्त माद्यमिति । उच्यते । हविःशेषाणां पर्युषितानामस्नेहसंयुक्तानां तेषां वचनमनर्थम् । न च तेषां स्नेहसंयुक्तानां परिवासः संभवति । एवं च तेषां वचनमर्थवद्भवति यदि भोजनकाले तेषां स्नेहसंयोगो नापेक्ष्यते । १५ अतस्तेषां तावद्भोजनकाल एव स्नेहसंयोगनिरपेक्षतया वचनस्यार्थवत्त्वम् । यद्येवं तथापि न संदेहोऽर्थवत्त्वाद्विशेषपदस्य विधेयार्थता स्नेहसंयुक्ता शब्दस्य न्याय्या । उच्यते । एतावदत्र सन्देहे बीजं यथाश्रुतसंबन्धस्य बलीयस्त्वात्किं हविःशेषपदमनुवादोऽस्तु उतानर्थकत्वं मा प्रापदिति यत्पर्युषितं तेन स्नेहसंबन्धः क्रियताम् । तत्रानर्थक्याव्यवहितकल्पना ज्यायसी । समाचारान्निर्णयः । सर्पिस्तैलवसामज्जाः स्नेहाः ॥ २४ ॥
।
चिरस्थितं द्विरात्राद्यन्तरितं अपिशब्दादात्तमित्यत्रापि संबन्धयितव्यम् । स्नेहाक्तमपि यवगोधूमजं सक्तुपूपादि । पयसो विक्रिया विकारा दधिमथितादयः ॥ २५ ॥ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ॥
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ २६ ॥
३९५
For Private And Personal Use Only
२०
२५.
१ अ-ड-तद्भवेत् । २ अ-क-ड- + द्यभ्यंतो भक्षितोखरा विशदमभ्यवहार्यमाह । अन्नांतरं स्यात् प्रत्ययान्तः । ३ फ-उक्तशुक्तस्यापि । ४ अड-संबंध । ५ अ-ड-यतः । ६ फ-स्नेहसंयुक्तमिति न पुनर्विधे ।