________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
मेधातिथिभाष्यसमलंकृता।
[पंचमः संवत्सरस्यैकमपि चरेत्कृच्छू द्विजोत्तमः ॥ अज्ञातभुक्तशुद्धयर्थं ज्ञातस्य तु विशेषतः ॥ २१ ॥
भोज्यशूद्रगृहभोजिनो ब्राह्मणस्येदमुच्यते । यस्य शूद्रस्य गृहे यानि ब्राह्मणानामभोज्यान्यन्नानि संभवन्ति न दूरतः पििहयन्ते तादृशस्य गृहे यो ब्राह्मणोऽन्नं भुते तस्य प्रतिषिद्धान्नभोजनाशङ्कायां प्राजापत्यकृचरणमुपदिश्यते । अविशेषनोदनायां प्राजापत्यं कृछू प्रतीयत इति वक्ष्यामः । अज्ञातभुक्तशुद्धयर्थमज्ञातदोषशङ्कायामाह । दोषो यदि भुङ्क्ते तस्य शुद्धयर्थम् । ननु च ईदृशस्य शुद्धिं वक्ष्यति (अ.१ श्लो.१२७) " अदृष्टमद्भिनिर्णिक्तमिति "। तस्य विषयं तत्रैव दर्शयिष्यामः । ज्ञातस्य तु दोषस्य विशेषतः वैशेषिकं प्रायश्चित्तं कर्तव्यम् । यस्य यद्विहितं प्रतिपदम् । ॥ २१॥
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ॥
भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ ॥
भक्ष्यप्रसंगेन हिंसाऽभ्यनुज्ञायते । अत्यर्थं क्षुत्पीडायां भृत्यादेर्भोजनान्तरासंभवे भक्ष्यमृगपक्षिवधः कर्तव्यः । भत्याः प्राग्व्याख्याताः । अगस्त्यस्तथाकृतवानित्यगस्त्य
ग्रहणं प्रशंसार्थम् । यज्ञार्थमित्याद्योऽर्ध श्लोकोऽर्थवाद एव । तत्र हि वधः प्रत्यक्षश्रुतिविहित१५ त्वादेव सिद्धः । प्रशस्ता ये भक्ष्यतयाऽनुज्ञाताः । एष एवार्थ उत्तरश्लोके विस्तरतः कर्मार्थवादतया कथ्यते ॥ २२ ॥
बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ॥ पुराणेष्वृषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ ॥
षट्विंशत्संवत्सरं नाम सत्रं तत्र मृगपक्षिवध आम्नातः सोऽनेनानूद्यते । इदं तत्र २० ब्राह्मणं "संस्थितेऽहनि गृहपतिर्मंगयां याति स तत्र यान्यान्मृगान्हन्ति तेषां तरसाः
पुरोडाशा भवन्ति" । अर्थवादत्वाद्बभूवुरिति भूतप्रत्ययेन विवक्षा तेनाद्यत्वेऽपि भवन्ति । एवं पुराणेष्वपि । न केवलं कश्चिदद्यत्वे सत्राणां व्यवहार इति दर्शनाभिप्रायमेतत् । पुराणेविति । न पुनरद्यत्वे यदि केचित्सर्वाण्येव हरेयुस्तेषामेष विधिन भवतीति मन्तव्यम् ।
अथवा यः स्वयं शास्त्रार्थ वेदितुमसमर्थः केवलं परप्रसिद्धया " महाजनो येन गतः स २५ पन्थाः" (म. मा. वनपर्वे) इति न्यायेन प्रवर्तते तत्रत्वे तदुच्यते । पुराणेष्विति नायमिदं
प्रथमको धर्मः । किंतर्हि ? अनादिः। पौराणा ऋषयो ब्राह्मणाःकेचन तपःसिद्धाः जात्यन्तरं
१ फ-प्रसिद्धः । २ अड-उत्तरतः । ३ फ-केवल-।
For Private And Personal Use Only