________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
मृगद्विजान मृगाः पक्षिण न भक्ष्याः । भक्ष्येष्वपि समुद्दिष्टान् ये प्रतिषिद्धास्ते ताद्रूप्ये असति भक्ष्यतां प्राप्ताः समुद्दिष्टा इव भवन्ति । न तु भक्ष्याणां समुद्देशोऽस्ति । परिहर्तव्यतया विशेषतोऽविज्ञातान् भक्ष्यपक्षपतितान् भक्षेष्वपि समुद्दिष्टा इत्येवमुच्यन्ते । पञ्चनखाश्च वानरागालादयः । सर्वग्रहणं पादपूरणार्थम् ॥ १७ ॥
श्वाविधं शल्यकं गोधां खगकूर्मशशांस्तथा ॥ भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांकतोदतः ॥ १८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चनखानां मध्याच्छ्रावित्कादयो भक्ष्याः । स्मृत्यन्तरे तु खने विकल्पः । तथा च वसिष्ठः (अ. १४ सू. ४७ ) " खङ्गे तु विवदन्ते " इति । उष्ट्रवर्जिता एकतोदतो गोव्यजमृगा भक्ष्याः । ननु च श्वावित्प्रभृतीनां पञ्चनखानां भक्ष्यत्ववचनादन्येषामभक्ष्यतासिद्धेः सर्वान्पञ्चनखानिति प्रतिषेधवचनमनर्थकम् । नैष दोषः । सर्वशब्देन १० प्रतिषेधे स्पष्टा प्रतिपत्तिर्भवति । भक्ष्यविशेषनिर्देशेन तदन्येषां या अभक्ष्यताप्रतिपत्तिः सा आनुमानिकी प्रतिपत्तिः । गौरवं हि तथा स्यात् ॥ १८ ॥
छत्राकं विडुराहं च लशुनं ग्रामकुकुटम् ॥
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्दिजः ।। १९ ।
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ॥ यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः || २० ||
३९३
छत्रri कवकानि । विड्वराहः ग्रामशूकरः स्वतन्त्रविहार: । एतानि भक्षयित्वा १५ पंतितो भवेत् । पतितप्रायश्चित्तं कुर्यात् । वक्ष्यति च (अ. ११ श्लो. १६) “गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट् ” ॥ १९ ॥
अमत्या अबुद्धिपूर्व षट् जग्ध्वा षण्णामन्यतममपि भक्षणस्य अविधेयत्वनिमित्त- २० तया साहित्यस्याविवक्षा । शेषेषु अभक्ष्येषु भक्षणे लोहितवृक्ष निर्यासादिषु एकमहोरात्रं न भुञ्जीत । अहः शब्दो रात्रावपि दृष्टप्रयोगः । " अहश्च कृष्णमहरर्जुनं चेति " । चत्र प्रकरणे प्रतिषिद्धेषु प्रायश्चित्ताधिकारे प्रतिपदं प्रायश्चित्तमन्यद्वक्ष्यते " क्रव्यादसूकरे" त्यादि तत्र तदेव द्रष्टव्यं प्रतिपदविहितत्वात् । अस्य चोपवासस्यान्यत्र चरितार्थत्वात् ॥ २० ॥
For Private And Personal Use Only
२५
१ अ-ड-जनभक्ष्या' । २ अ-ड- उच्यते । ३ अ-क-ड-नरशृगालादयः । ४ अ-ड-स्वशब्देन ५ फ - शुकरेत्यादि, अ ११ श्लो. १५६ ।
५०