________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
मेधातिथिभाष्यसमलंकृता ।
[पंचमः
बकं चैव बलाकां च काकोलं खञ्जरीटकम् ॥ मत्स्यादान् विद्वराहांश्च मत्स्यानेव च सर्वशः ॥ १४ ॥
बकबलाकाकाकोलनिमज्यन्मत्स्यादीनां मत्स्यादग्रहणात्सिद्धे प्रतिषेधे तदन्येषां विकल्पार्थ पुनर्वचनम् । मत्स्यादा अपक्षिणोऽपि मस्त्यादग्रहणादभक्ष्या विज्ञेयाः नक्रांदयः क्रियानिमित्तत्वान्मत्स्यादशब्दस्य । काकोलश्च श्येनो देशान्तरप्रसिद्धेरयं बाह्लीके
वेवमुच्यत इति प्रसिद्धम् । विडाहप्रतिषेधाच्चारण्याभ्यनुज्ञायामप्रतिषेधश्च पूर्वसूत्रे प्रकरणाच्छकुनिविशेषणार्थो विज्ञेयः । एवं हि चेह विड्राहग्रहणमर्थवद्भवति । ग्रामवासी शूकरो विडाहः । ननु च यदि तत्र प्रकरणादग्रामवासिनः पक्षिणो गृह्यन्ते । इहापि
मत्स्यादाः पक्षिण एव ग्रहीतुं न्याय्याः । नैवम् । न चात्र शकुनीनां प्रकरणमस्ति १० विडुराहमत्स्यानामिति पक्षिणामपि निर्देशार्थम् । सर्वशः सर्वदा । उत्सर्गोऽयं अस्यापवादं वक्ष्यामः ॥ १४ ॥
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ॥ मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत् ॥ १५ ॥
पूर्वस्या मत्स्यप्रतिषेधविधेरर्थवादोऽयम् । यत्संबन्धिमांसं योऽश्नाति स तन्मांस१५ संबन्धिन्याऽशनक्रियया व्यपदिश्यते । यथा सर्पादो नकुलो मार्जारो मूषकाद इत्यादि ।
यस्तु मत्स्यादः स सर्वमांसाशी भवति । यो मांसाद इत्यपि व्यपदेष्टुं युक्तः । अतो निन्दातिशयान्मत्स्यान्विर्जयेत् ॥ १५ ॥
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः॥ राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः॥ १६ ॥
पाठीनरोहितो मत्स्यजातिविशेषौ तयोर्हव्यकव्यनियोगेन श्राद्धादौ भक्ष्यताऽभ्यनुज्ञायते । नान्वाहिके भोजने । राजीवसिंहतुण्डसशल्कानां सर्वशः हव्यकव्याभ्यामन्यत्राप्यनिवृत्तिभॊजने । राजीवाः पद्मवर्णाः कैश्चिदिष्यन्ते । अपरैस्तु राजयो रेषा येषां सन्ति । सिंहतुण्डाः सिंहाकृतिमुखाः । सशल्काः शकलिनः ॥ १६ ॥
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।। भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पश्चनखांस्तथा ॥ १७ ॥ एकचराः सर्पोलूकादय एकाकिनश्चरन्ति । अज्ञातानामतो जातिविशेषतश्च ।
१फ-गृहीतुं । अ-ड-नात्र । ३ फ-गोमांसाद। ४ अ-क-ड-नान्वहिके ।
For Private And Personal Use Only