SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । एवोपसंहारो युक्तो नाविशेषेण काकजालपादानां सर्वेषां प्रतिषेधो भवेदेवं यद्यपौरुषेयोऽयं ग्रन्थः स्यात् । भिन्नकर्तृके त्वपौरुषेयत्वे न सामान्यस्य न किंचित्प्रयोजनम् । हंसादिविशेषमात्र पर्यवसाने भिन्नकर्तृकश्च पौरुषेयत्वे सति सामान्यदर्शिनो विशेषविषयमज्ञानं संभवति । विशेषदर्शिनोऽपि सामान्यविषयः । उभयोश्च मूलकल्पनायामेकस्य सामान्य वेदनं वचनमूलं कल्प्यते । अन्यस्य विशेषवचनम् । तयोश्च वैदिकयोर्भिन्नशाखाधीतयोरसति शास्त्रभेदे ५ एकवाक्यतैव न्याय्या । न च वेदे पर्यनुयोगोऽस्ति । किं सामान्येन यदि विशेषनिष्ठता तस्य कर्तुरभावात् । श्रुताद्धि तत्र प्रतिपत्तिः केवलशब्दशक्तिसमाश्रिता । न प्रयोजनवशेनार्थान्तरकल्पनम् । रज्जुदालादयः शाकुनिकेभ्य उपलब्धन्याः ॥ १२ ॥ 1 प्रतुदान् जालपादांच कोयष्टिनखविविष्करान् ॥ निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ।। १३ ।। ३९१ प्रतुद्य प्रत्दृत्य चञ्चवा ये भक्षयन्ति । स्वभाव एष एषा पक्षिणाम् । प्रतुदाः शतपत्रादयः । जालपादा आट्यादयः । तेषां विकल्प उक्तः । For Private And Personal Use Only १० ननु च यत्र विकल्प अन्यतरत् नेच्छातः प्रवृत्तिः । सा चाप्रतिषिद्धेष्वपि स्थितैव। लौकिकं हि भक्षणं तत्सत्येवार्थित्वे न शास्त्रीयं येन नियमतः स्यात् । तत्र विकल्पितस्य प्रतिषेधस्य न किंचित्प्रयोजनं पश्यामः । उच्यते । दत्तोत्तरमेतत् । यत्राबुद्धिपूर्वप्रयोगाच्छब्दादेवार्थावगतिः । ११ पौरुषेयः स्त्वयं ग्रन्थः समाहितचेतसा प्रयत्नवता शतसाहस्त्रिकं संक्षप्तमाचार्येण प्रणीतो यत्राशक्यमनर्थकं प्रयोक्तुं अत आचार्याभिधानं उन्नीयते । नूनं जालपादे प्रतिषेधे त्वसति येन तद्विशेषं हंसं स्वशब्देन निषेधयति । यत एतदपि स्मरणमेव । अन्ये त्वन्येन जालपादस्त्विति प्रमादपाठः स्यात् । उक्तं चैतदिङ्गितेन चेष्टितेन महता वा सूत्रप्रणयनेनाचार्याणामभिप्राया लक्ष्यन्ते । विशेषश्चात्रानुमयिते । " अनापदि न मक्षयेत्” इति विवक्षते सामान्यप्रतिषेध २० उभयोरर्थवत्वाय । यत्र मांसविक्रयार्थाः पशवो हन्यन्ते सा सूना । आपणो मांसस्येत्येके । बल्लूरं मांसं संशोष्य चिरस्थापितम् । नखैर्विकीर्य भक्षयन्ति ते नखविष्किराः । मयूर - बलाकादयः । आपत्स्विति वचनात्तु तेषां पाक्षिकी भक्ष्यताऽप्यस्ति । स हि पठति 'कुक्कुटो विकिराणामिति' । न चास्य मानवस्य वचनस्य कुक्कुटोपसंहारः शक्यो वक्तुं कुक्कुटनामग्रहणस्यानर्थक्यप्रसंगात् ॥ १३ ॥ 1 २५ १ अ -ड- सामान्यवेदिनं । २ फ-यत्र विकल्प उच्यते तत्रेच्छातः प्रवत्तिः । 3 फ-आर्धित्व | ४ फ- स्वयं ५ अ-क-ड नास्वसति । ६ फ-वक्ष्यति ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy