SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org w.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir ३९० मेधातिथिमाष्यसमलंकृता । [पंचमः ऋादः शकुनीन् सर्वान् तथा ग्रामनिवासिनः ॥ अनिर्दिष्टां चैकशफाष्टिटिभं च विवर्जयेत् ॥ ११ ॥ क्रव्याद आममांसभक्षकाः कङ्कगृध्रादयः । अभक्ष्यवत्केवलाममांसभक्षका गृह्यन्ते ।। तत्रोभयरक्ता मयूरादयः । ग्रामनिवासिनः अक्रव्यादा अपि । एकशफा अश्वाश्वतरगर्दभादयः । अनिर्दिष्टास्तु नाभक्ष्यत्वेनोक्तास्ते न भक्ष्या इति । ये तूक्तास्तत्रैव भक्ष्या ये त्वाष्ट्रवडवऋक्षगौरगर्दभाः प्रजाकामस्तेषां च मांसमैग्नीयादिति । ननु च श्रुतित एव तत्र भक्ष्यावाप्तिः प्रत्युत निर्दिष्टग्रहणे सति श्रुतौ चोदितानामन्यत्र भक्ष्यताशङ्का । अनिर्दिष्टान्वर्जयेन्न निर्दिष्टानिति वाक्यार्थप्रतिपत्तेः। न च स्मृतौ केचिद्भक्ष्यत्वेन निर्दिष्टाः । येन तद्व्यतिरिक्तविषयमनिर्दिष्टग्रहणं व्याख्यायेत। अतः श्रुतौ ये निर्दिष्टास्ते न भक्ष्या इति प्राप्नोति । उच्यते।आचाराविरोधी सस्मृत्यर्थः । अनिर्दिष्टग्रहणमनुवादः। टिट्टिमः शकुनिरेव टिटीति यो वाशते । प्रायेण शब्दानुकरणनिमित्तं शकुनीनां नामधेयप्रतिलम्भस्तदुक्तं निरुक्तकारेण ' काक इति शब्दानुकृतिस्तदिदं शकुनिषु बहुलमिति' ॥ ११ ॥ कलवित प्लवं हंसं चक्राह्र ग्रामकुक्कुटम् ।। सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥ १२ ॥ १५ कलविङ्को ग्रामचटको निगमेषूक्तः । ग्रामवासित्वात्तस्य सिद्धे प्रतिषेधे पुनः प्रति षेधः स्त्रियाश्चटकाया अभ्यनुज्ञानार्थः । पुंशब्दो ह्ययं वृषभवत् । अन्ये त्वारण्यस्य निवृ. त्यर्थ मन्यन्ते । ते हि वर्षासु वनवासिनो भवन्ति । बाहुल्यव्यपदेशाच्च ग्रामचटका उच्यन्ते । यथा महिषा आरण्याः। प्लवहंसचक्रवाकानां वक्ष्यमाणजालपादप्रतिषेधात्सिद्धे प्रतिषेधे नित्यार्थ ग्रहणम् । अत आट्यादीनां विकल्पेन भक्षणं गम्यते । ग्रामकुक्कुटम् । ग्रामग्रहणादारण्याभ्यनुज्ञानम् । कुतः पुनरारण्यस्याभक्ष्यताशङ्का । स्मृत्यन्तरे हि "कुक्कुटो विकिराणामिति" पठ्यते । अतश्चाविशेषणाभक्ष्यता प्राप्ता वचनेन तस्य सामान्यप्रतिषेधस्य विशिष्टविषयता प्रज्ञायते । ननु विकल्पः कस्माद्भवत्यनेन शास्त्रेणास्याभ्यनुज्ञानाच्छास्त्रान्तरेण चाविशेषेण तस्यापि प्रतिषेधात्। नायं विकल्पस्य विषयः।विरोधे हि तुल्यबलानां विकल्पो न चात्र विरोधोऽस्ति । २५ न ह्यनयोः स्मृत्योः शास्त्रभेदोऽपि । सामान्यस्य विशेष उपसंह न्याय्यत्वात् । शाखा न्तरतस्तृतीयस्याप्येकशास्त्रस्य दर्शितत्वात् । यद्येवं जालपादप्रतिषेधस्यापि हंसादिविशेष १फ-क्रव्यादान् । २-येतक्तास्तेनैव । 3-वौष्ट्रवडकक्षगोबानरगर्दभाः । ४ फ-नाश्नीयादिति । ५--रज्जुवालं । ६ अ-ड-तृतीयामपि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy