SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ मेधातिथिभाष्यसमलंकृता । [पंचमः पायसापूपमिति पयसा सिद्ध ओदनः पायसो न दध्यादिपयोविकारः । अपूपाः पुरोडाशाः । देवान्नानि समाचारप्रमाणकानि । हवींषि श्रुतिविहितानि होतव्यानि प्राग्ग्रहहोमाद्यतो हविःशेषस्य भक्ष्यतां वक्ष्यति । अनुपाकृतस्य अयज्ञे हुतस्य पशोर्मासानि । उपाकरणं पशोः संस्कारविशेषः स पशुयागेषु विहितः । एतेन च यज्ञोपयुक्तशेषभक्ष्यता मांसस्य लक्ष्यते । वृथाशब्दाधिकारेऽप्यनुपाकृतग्रहणमतिथ्यादिशिष्टस्यापि गोव्यजमांसस्य प्रतिषेधार्थ गोव्यजमांसमेव वाऽनुपाकृतशब्देन विवक्षितम् । गोव्यजस्यैव तत्रालम्भश्चोदितो यतः शिष्टं प्रोक्तम् ॥ ७ ॥ अंनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ॥ आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ ८॥ यदीहानिर्दशाहं गोः क्षीरमिति पाठः उष्ट्रादीनामपि दाशाहादिकः प्रतिषेध आश. ङ्कयते । अनिदेशाग्रहणानुवृत्त्या तत्र समाचार आत्यन्तिकप्रतिषेधार्थ आश्रयणीयः । अनिर्दशाया इति त स्त्रीलिङ्गपाठे आशङ्कव नास्ति । न हि तद्धितान्तरैरनिर्दशाया उष्ट्रमित्यादिभिः संबन्धोपपत्तिरुत्तरत्र च पुनः क्षीरग्रहणात्समाचाराच्च उष्ट्रैकशफाविका निर्दशगवीक्षीराणि सविकाराणि प्रतिषिध्यन्ते । सन्धिनीविवत्सयोस्तु क्षीरमेव । अनिर्दशा १५ च गौरुच्यते यस्याः प्रसूताया दशाहान्यनतिक्रान्तानि । सन्धिनी या उभयोः प्राप्त दोहा कथंचिदन्यतरस्मिन्दुह्यते । सायमप्रदुग्धासायं दुह्यते । सा तु स्वल्पक्षीरत्वादेकस्मिन्नेव काले साऽसौ संधिनी । कश्चिदाह या मृतस्ववत्सा परकीयं वत्सं संचार्य दुह्यते सा सन्धिनी। विवत्सा तु या सत्येव वत्से विनाकृतवत्सा वत्सप्रस्रवणमनपेक्ष्य मकुष्ठकयवशालितुषादिना भोजनविशेषेण दुह्यात् । विवत्साया इति । तेनैव वत्सग्रहणे नावत्सा धेनुरानीयतामितिवद्गोरिति लब्धे गोग्रहणमजामहिप्योरप्रतिषेधार्थम् । न पुनरनिर्दशाया इत्यत्र । अतश्च गोग्रहणं तत्राजाग्रुपलक्षणार्थम् । तथा च गौतमः ( अ. १७ सू. २२-२३) "गोश्च क्षीरमनिर्दशायाः सूतके । अनामहिष्योश्च" इत्याह । पयोग्रहणं सन्धिनीक्षीरमिति समासान्तवर्तिनः क्षीरपदस्य नातिसुकरः संबन्धो यतः ॥ ८ ॥ आरण्यानां च सर्वेषां मृगाणां माहिषं विना ॥ २५ स्त्रीक्षीरं चैव वानि सर्वशुक्तानि चैव हि ॥ ९॥ २० १ अ-क-ड-शिष्टं प्रेक्षितश्चक्रे । २ [ क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः॥ सप्तरात्रव्रतं कुर्यात्प्रयत्नेन समाहितः॥१॥] For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy