SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८६ मेधातिथिभाष्यसमलंकृता । [पंचमः प्रतिषेधः । कुकुण्डानि कवकानि वैद्यके व्याख्यातानि । एतच्च व्याख्यानं न गवादिशब्दवत् । कवकशब्दो लोके च प्रयुज्यते । अतोऽस्य समाचाराद्वैद्यकादिशास्त्रार्थे निश्चयः प्रदर्शितश्चासौ लशुनादीनां तु समानवर्णगन्धा अपि विष्णुना प्रतिषिद्धाः । पाराशरिकायां तु शब्देनैव निषेधः प्रायश्चित्तविशेषार्थ उक्तः “चान्द्रायणमिति" (अ.११ श्लो. १०६)। ५ तेन लवर्तककर्णिकारादीनां प्रतिषेधः । अमेध्यप्रभवान्यमेध्यनातानि च संसर्गजातानि । अन्ये त्वाहुर्मूलवास्तूकवत्केवलामध्यप्रभवानां युक्तः प्रतिषेधः । ततश्च यान्यधिकपुष्टयर्थ धान्यशाकादीन्यमेध्यक्षेत्रजातानि संसृज्यन्ते तानि न दुष्यन्तीति । तदयुक्तम् । अस्ति हि तत्र पुनः श्रुतेनं वृत्तौ सर्वस्याप्यभक्ष्यत्वादिहापि च । यद्यमेध्यसंसर्ग मन्तरेण न किंचिद्वस्तूत्पद्यते ततः स्यादपि । यतस्तु किंचिन्मेध्याज्जायते किंचि. १० संसृष्टात्ततोऽयं प्रतिषेधः । केवलेऽमेध्यप्रभवे न संसृष्टेऽवतिष्ठते । मांसस्य सत्यपि शुक्रशोणितामध्यप्रभवत्वे नायं प्रतिषेधः । पृथक्प्रकरणारम्भात्तस्य ॥ ५ ॥ लोहितान् वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा ॥ शेलं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ ६ ॥ वृक्षकोटरस्रावेण हेत्वन्तरेण वा बहिर्यन्मूलस्कन्धफलपलाशशाखाकुसुमव्यतिरिक्त १५ वृक्षलग्नं जायते स वृक्षनिर्यासः । लोहितग्रहणात्कर्पूरादीनामप्रतिषेधः । व्रश्वनाच्छेद नायेषां प्रभवो जन्म एवं वृक्षादेवल्कप्रदेशास्तत्रैव जायन्ते तेषामलोहितानामप्रतिषेधः । शेलुः श्लेष्मातकः प्रसिद्धो वैद्यकादिशास्त्रेभ्यः । न तु सुतस्य क्षीरस्य संतानिका अप्रसिद्धत्वात् । यत्तु पियूषसाहचर्यात्संतानिका युक्तेति भवति साहचर्य विशेषहेतुरुभयत्र प्रयोगे सति न पुनः साहचर्यमदृष्टप्रयोगाणां प्रयोगज्ञापकम् । गव्यं च । गव्यग्रहणा२० माहिषादेरप्रतिषेधः । अनाद्यं यदि तदग्निमात्रसंयोगापिण्डीभूतमनासक्तं च । सद्यः प्रसूताया गोः क्षीरं पीयूषशब्देनोच्यते । ननु च क्षीरस्य सविकारस्य दशाहं चाभक्ष्यतां वक्ष्यति । त्रिचतुराणि वाऽहानि तादृशं क्षीरं भवति । सत्यम् । यदि कथंचित्कस्यापि दशाहात्परेण भवति तदिदमर्थवत् । प्रयत्लेत्यादि पदद्वयं श्लोकपूरणार्थम् । अभक्ष्याणीत्यनुवर्तते ॥ ६ ॥ १ क-ड-तुशब्दे नैव । २ अ-क-ड-लवतकोकरणिकारतादीनां प्रतिषेधः । ३ अ-क-ड-श्रुतेतरनिवृत्तौं । ४ अ-क-ड-केवलो । ५ फ-पेयूषं । ६ फ-वल्कल । ७ अ-ड-मध्यं च । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy