________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
३८५
यन्महर्षिभिः पृष्ट तदिदानी दर्शयति । एवमिति शास्त्रव्यापारपरामर्शः। यथोक्तमिति शास्त्रार्थ परामृशति । एतेन शास्त्रसंदर्भेण यादृशो धर्म उक्तस्तत्पुनस्तमनुतिष्ठतां द्विजातीनाम् । विप्रग्रहणस्य दर्शनार्थत्वाद्वक्ष्यति (श्लो २६) " एतदुक्तं द्विजातीनामिति " कथं मृत्युः प्रभवति स्नातकावस्थायां ब्रह्मचर्यावस्थायां वा यतः परिपूर्णायुर्भिस्तैर्भवितुं युक्त पुरुषायुषजीविभिः शतवर्ष पुरुषाणामायुस्ततः पुरा मृत्युर्मरणयेषां न युक्तम् । यत उक्तम् ५ "आचारालभते ह्यायुः" (अ. ४।१५६) "जपतां जुह्वतामिति" (अ. ४ श्लो.१४६)॥२॥
स तानुवाच धर्मात्मा महान्मिानवो भृगुः॥ श्रूयतों येन दोषेण मृत्युर्विमान् जिघांसति ॥३॥ अनभ्यासेन वेदानामाचारस्य च वर्जनात् ॥
आलस्यादन्नदोषाच्च मृत्युर्विमान् जिघांसति ॥ ४॥ ननु च स्वधर्ममनुतिष्ठतामिति प्रश्नेन युक्तं येन दोषेणेति' उत्तरश्च ग्रन्यो नैवोपपद्यते ॥ उच्यते । अनभ्यासेनेत्यादिदृष्टान्तत्वेनोच्यते । यथा भवद्भिः प्रतिपन्ना वेदानभ्यासादयः पुरायुषो मरणहेतवः । एवं वक्ष्यमाणोऽन्नदोषः । सत्स्वपि वेदाभ्यासादिषु न ताव. स्वधर्मो यः पूर्वत्र कथितः किं त्वयमन्नदोषो गरीयस्तरः पृथक् प्रकरणाच्चैतदभिधीयते । नास्नातकस्य विज्ञानलेपमात्रमधर्मोऽयम् ॥ ४ ॥
लशुनं गृञ्जनं चैव पलाण्डं कवकानि च ॥
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥५॥ लशुनादयः पदार्था लोके प्रसिद्धा एव । कवकशब्दो जातिशब्दः। कचित्कृयाकुरिति प्रसिद्धेऽर्थे मन्यते । छत्राकानि कवकान्येव । तथाहि कवकशब्देन प्रतिषिद्धं छत्राकशब्देन प्रायश्चित्तं वक्ष्यति (श्लो. १९) "छत्राकं विडाहं चेति"। न च छत्राकं २० नाम पदार्थान्तरं प्रसिद्धम् । न चाक्षरवर्णसामान्येन यो यच्छत्राकारस्तं तं छत्राकमिति युक्तं प्रतिपत्तुम् । तथा सति सुवर्चलादीनां समाचारविरोधी प्रतिषेधः प्राप्नोति । तस्माद्यान्येव कवकानि तान्येव छत्राकाणि । तथा च निरुक्तकारः "क्षुण्णमहिच्छत्रकं भवति यत् क्षुद्यत इति " । तेन पादप्रहारेण यान्येतानि भूमावकृष्टायामनुपूर्वजायां च सितवर्णानि जायन्ते तानि च कवकानि । वक्ष्यति च " भौमानि कवकानीति " । दर्शितं च पदा क्षुण्ण- २५ मिवेति । पादप्रहारेण यानि क्षुद्यन्ते । यतो यानि वृक्षाद्गुल्माज्जायन्ते तेषां तदाकाराणाम
१ क-ड-षोडशवर्षयुतं वा । २ फ-प्रतिपन्नं ।
For Private And Personal Use Only