SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 12ft: 11 ॥ श्रीगणेशाय नमः ॥ ॥ अथ पञ्चमाध्यायप्रारम्भः ॥ 宝宝凉茶 श्रुत्वैतानृषयो धर्मान् स्नातकस्य यथोदितान् ॥ इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ १ ॥ ब्रह्मचारिगृहस्थयेोरध्यायत्रयेण ये धर्म विहितास्तच्छ्रुत्वा ऋषयो मरीच्या दयो भृगुमाचार्यमिदं वक्ष्यमाणं वस्त्वब्रुवन् पृष्टवन्तः । ननु चात्र स्नातकस्येति श्रूयते । तत्र ब्रह्मचारिग्रहणं किमर्थम् ? । उच्यते । १० वृत्तसंकीर्तनमेतत् । ब्रह्मचारिणो धर्मा उक्ता एव । १ फ-त्रये. महात्मानमनलप्रभवामिति च भृगुविशेषणम् । अनलाग्नेः प्रभव उत्पत्तिस्तस्य । ननु प्रथमेऽध्याये " अहं प्रजाः सिसृक्षुः इत्यत्र मनोरपत्यं भृगुरुक्तः । सत्यम र्थवादः । अमुत्र अग्नेः सकाशाद्भृगोर्जन्म श्रुतं तद्दर्शने नैवमुक्तम् । तथा च नामनिर्वचनम् । “भ्रष्टाद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवत् यद्द्द्वितीयमासीत्तद्भृगुरिति । उपचारतो १५ वैतदुच्यते । तेजस्विता सामान्यादग्नेरिव प्रसव इति । न चात्राभिनिवेष्टव्यं कतरः पक्षो युक्त इति । अनिदं परत्वादस्य शास्त्रस्य सर्व एंवायं प्रश्नप्रति वचनसंदर्भों वक्ष्यमाणस्यान्न दोषस्य गौरवज्ञापनार्थं परिग्रहदुष्टान्नस्वभावदुष्टं गुरुतरमिति । संबन्धिदोषात्स्वरूपदोषो बलवान न्तरङ्गत्वात् । Acharya Shri Kailassagarsuri Gyanmandir 99 ननु च पूर्वं बहुतरं प्रायश्चित्तं श्रूयते " अमत्या क्षपणं त्र्यहमिति " । इदं तु २० “शेषेषूपवसेदहरिति ” । तत्कथमस्य गुरुतरत्वम् । उच्यते । लशुनाद्यपेक्षमेतत् । तेषु हि मत्या जग्ध्वा पतेदिति पतितप्रायश्चित्तं भवति ॥ १ ॥ एवं यथोक्तं विप्राणां स्त्रधर्ममनुतिष्ठताम् ॥ कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ २ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy