________________
Shri Mahavir Jain Aradhana Kendra
३८२
www. kobatirth.org
१५
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
योऽन्यथासन्तमात्मानमन्यथा सत्सु भाषते ।। स पापकृत्तमोलोके स्तेन आत्मापहारकः || २५८ ॥
अन्यथाभूतमधार्मिकं सन्तं सत्सु शिष्टेष्वन्यथा भाषते धार्मिकोऽहमिति । अन्येन वा प्रयोजनेन चाश्रितोऽन्यद्दर्शयति स सर्वेषां पापकृतामधिकतमः पापकृत् । स्तेन५ चौरः । आत्मापहारकोऽन्यश्चौरो द्रव्यमपहरत्ययं पुनरात्मानमेवेति निन्दातिशयः॥ २५८ ॥ वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः ॥
तस्तु यस्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ।। २५९ ॥
शब्दार्थयोर्नित्यसंबन्धाद्वाचेि शब्देऽर्था नियता उच्यन्ते । वाङ्मूला वक्तुः स्वाभिप्रायप्रकाशनस्य तदधीनत्वात्तन्मूला उच्यन्ते । वाचो विनिःसृताः संभूताः श्रोतुरपि प्रति१० पत्तेस्तत्तुल्यत्वाद्वाग्विनिःसृता उच्यन्ते । न चात्र पौनरुक्त्याशङ्कापरिहार प्रयतितव्यम् । अनुवादत्वादस्य यथाकथंचिद्वस्तुपरिहारत्वात् । तां वाचं यश्चोरयति मुष्णात्यन्यदुक्त्वाऽन्यदनुतिष्ठत्यन्येनाभिप्रायेण संगच्छतेऽन्यच्च दर्शयति स सर्वस्तेयकृत् । नास्ति तद्रव्यं सुवर्णादि यत्तेन नापहृतं भवतीति निन्दार्थवादोऽनृतवचनस्य ॥ २५९ ॥ महर्षिपितृदेवानां गत्वाऽऽनृण्यं यथाविधि ॥
पुत्रे सर्व समासज्य व सेन्माध्यस्थ्यमास्थितः || २६० ॥
[ चतुर्थ:
गृहस्थस्यैवेदं प्रकारान्तरमुच्यते । महर्षीणामानृण्यं स्वाध्यायेन पितृणामपत्योत्पाद - नेन देवानां यज्ञैर्यथोक्तं "त्रिभिर्ऋणैऋणवा " इति गत्वा कृत्वैतत्रयं पुत्रे प्राप्तव्यवहारे सर्वगृहकुटुम्बव्यवहारं समासज्य संन्यस्य वसेद्गृह एव माध्यस्थ्यमस्थितस्त्यक्ताहंकार इदं मे धनमिदं मे पुत्रदारमिदं मे दासीदासमिति स्त्रबुद्धिं संत्यज्यासीत । नाहं २० कस्यचिन्न कश्चिन्ममेति त्यक्तस्वतृष्णता माध्यस्थ्यम् । अयं च संन्यासः कामानां च दृष्टानां च कर्मणां सर्वेषामुत्तरत्र दर्शयिष्यामः ॥ २६० ॥
Carat चिन्तयेन्नित्यं विविक्ते हितमात्मनि ॥
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ।। २६१ ॥
कृते सर्वकर्मसंन्यास इदं तस्य विशेषतः कर्तव्यम् । एकाक्य सहायः सन्नविद्य२५ मानसंभाषणोऽनाकुले विविक्ते निर्जने रहसि चिन्तयेद्ध्यायेद्धितमात्मन्युपनिषत्सु या ब्रह्मोपासना विहितास्ता अभ्यसेत् । तच्चिन्तथा तदभ्यासे परं श्रेयो मोक्षाख्यमधिगच्छति प्राप्नोति ॥ २६१॥
For Private And Personal Use Only
१ फ-निन्दाशयः । २फ - माध्यस्थमाश्रितः । ३ फ - त्रिभिर्ऋणैऋणवानिति मत्वा । ४ - माध्यस्थ्यना स्थितस्त्यक्ता । ५ फ-आत्मनः ।