________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३.७९
अध्यायः]
मनुस्मृतिः। दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ॥
अहिंस्रो दमदानाभ्यां जयेत्स्वर्ग तथाव्रतः ॥ २४९ ॥ कर्तव्येषु दृढनिश्चयो दृढकारी । यत्करोति तदवश्यं समापयति न पुनः कार्यमारभ्यासमाप्य निवर्तते नानवस्थित इत्यर्थः । तदुक्तं " प्रारब्धस्यान्तगमनम् "। मृदुरनिष्ठुरः कूराचारौः स्तेनादिभिर्न संबन्धः । तैः सह संबन्धर्मकुर्वन् यथा दमदानाभ्यां स्वर्ग ५ जयेत्प्राप्नुयात् तीव्रतः । एतद्रतं नियमं धारयन् । दमस्य पृथगुपादानादान्तो द्वन्द्वसहिष्णुर्द्रष्टव्यः ॥ २४९ ॥
एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ॥
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ २५० ॥ एध इन्धनं काष्ठादि । अन्नं पक्वमामं वा । अभ्युद्यतमभिमुखमुपनीतम् । एत- १० सर्वतः प्रतिग्रहीतव्यम् । पतिताभिशस्तचण्डालादिप्रतिलोमवर्ज शूद्रादन्यस्माद्वा ईषत्पापकर्मणः । मधु माक्षिकम् । अभयं दक्षिणेव दृष्टान्तार्थमेतत् । प्रतिग्रहो हि परकीयस्य द्रव्यस्य तदिच्छया स्वीकारो न चान्नरूपता (?) । न ह्यत्र कस्यचित्स्वाम्यं निवर्तते न च कस्यचिदुपजायते । अतः स्तुत्या दक्षिणाशब्दप्रयोगः । यथा चण्डालादिभ्योऽप्यरण्ये कान्तारे वा रक्षा चौरादिभ्योऽङ्गीक्रियमाणा न दोषायैवमेतदेधादिगृह्यमाणं न दोषाय । १५ अनापदि चायं विधिः । आपदि तु चण्डालादिभ्योऽपि वक्ष्यति । अभ्युद्यतशब्दश्वान्नेनैव सह संबध्यते प्रत्यासत्त्या नैधादिभिः । अत एधादिषु याच्याविरुद्धा। " धार्मिकेभ्यो द्विजातिभ्यः कर्तव्यस्तु परिग्रहः” इत्यधार्मिकेम्यो द्विजेभ्यः शूद्राच्चाप्राप्तः । इष्यते च द्रव्यविशेषोपयाञ्चा । तदर्थमिदम् ॥ २५० ॥
आत्दृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ॥
मेने प्रजापतिर्लाह्यामपि दुष्कृतकर्मणः ॥ २५१ ॥ एधादतिरेकेण यदन्यद्रव्यं तस्याप्यनेन विशेषेण ग्राह्यतोच्यते । भिक्षाशब्दश्च प्रशंसायां प्रयुक्तो न भिक्षैव विवाक्षिता यद्यप्ययं सिद्धान्नाल्पतावचनः । भिक्षा किल स्वल्पत्वान्नातीव दोषावहा । ब्रह्मचारिणश्च सार्ववार्णकी विहिता । एवमन्यदप्यनेन विशेपेण तत्तुल्यं दृष्टम् । भिक्षाशब्दस्येवंविधार्थविवक्षया प्रयोगः ।।
तथाहि महाभारते ( १।२०६।१) " गत्वा ह्युभौ भार्गवकर्मशालां पार्थों पृथां प्राप्य महानुभावौ । तौ याज्ञसेनी परमप्रतीतौ भिक्षेत्यावेदयतां नराग्र्यौ" इति ।
१फ-संबंध न कुर्वन् । २ ण-क्ष-तथा च व्रतः। ३फ-माक्षिको । ४ फ-ड-क्ष-अन्न रूपता ण-वष्म चैवरूपता । ५फ-भिक्षेद्यथा।
For Private And Personal Use Only