SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ मेधातिथिभाष्यसमलंकृता । [ चतुर्थः सह गच्छति । इदं प्रत्यक्षसिद्धप्रसंख्यानार्थमुच्यते । मृतस्य शरीरं क्षितावुत्सृज्य काष्ठमिव निष्प्रयोजनं विमुखा बान्धवाः प्रतिगच्छन्ति । धर्मस्तु केवलं पुरुषमनुगच्छति ॥ २४४ ॥ तस्माद्धर्म सहायार्थ नित्यं संचिनुयाच्छनैः ॥ धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ २४५॥ उपसंहारोऽयम् । दुस्तरं तमः कृच्छ्रेण यत्तीर्यते । तमो दुःखम् । तदपि धर्मेण सहायेन सुतरं भवति । न हि तादृशे तमसि मज्जतीत्यर्थः ॥ २४५ ॥ धर्मप्रधानं पुरुषं तपसा हतकिल्विषम् ॥ परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ ४४६ ॥ धर्मः प्रधानं यस्यासौ धर्मप्रधानो धर्मपरायणो यथाविहितकर्मानुष्ठायी । तपसा हतकिल्बिषं कथंचित्प्रमादकृतव्यतिक्रमे तपसा प्रायश्चित्तेन हतकल्मषं शास्त्रव्यतिक्रमे जातोऽसौ दोषस्तस्मिंस्तत्प्रायश्चिने नष्टे परलोकं नयति भास्वन्तं परलोकं देवस्थानं स्वर्गादि नयति प्रापयति। कः? प्रकृतत्वाद्धर्म एव। शरीरिणं पुरुषं खेन शरीरेण शरीरी। न यथाऽन्येषां पुरुषाणां पाञ्चभौतिकं शरीरमेवं तस्य । किं तर्हि ? खमेव शरीरं ब्रह्म१५ विभुत्वमनेनोच्यते ॥ २४६ ॥ उत्तमैरुत्तमैनित्यं संबन्धानाचरेत्सह ॥ निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ २४७ ॥ बहुप्रकारत्वादुत्तमस्य तदपेक्षा वीप्सा । कश्चिज्जात्योत्कृष्टः कश्चिद्विद्यया कश्चिच्छीले. नाथवा संबन्धिभेदाद्यः कश्चित्संबधः केनचिदुत्तमेन योग्यः । उत्तमैरुत्तमैीत्यादिमिरुत्कृष्टैः कन्यादानादिलक्षणान्संबन्धानाचरेत्कुर्यान्निनीपुर्नेतुं प्रापयितुमिच्छुः कुलमुत्कर्ष श्रेष्ठयमधमानधास्त्यजेत् । उत्तैमैरेव विधानादधमानां त्यागे सिद्ध उत्तमासंभवे मध्यमानुज्ञानार्थ त्यागवचनम् । अधमा निकृष्टाः ॥ २४७ ॥ उत्तमानुत्तेमानेव गच्छन् हीनांस्तु वर्जयन् ॥ ब्राह्मणः श्रेष्ठतामति प्रत्यवायेन शुद्धताम् ॥ २४८ ॥ उत्तमान्गच्छंस्तैः सह संबन्धं कुर्वन्ब्राह्मणः श्रेष्ठतामेति । ब्राह्मणग्रहणं क्षत्रियवैश्ययोरपि प्रदर्शनार्थम् । प्रत्यवायेन विपरीताचरणेन हीनैः सह संबन्धिनः प्रातिलोम्येन शुद्धतां गच्छति । जातेरनपायस्ता तुल्यतां प्राप्नोतीत्युक्तं भवति ॥२४८॥ १र-ड-धर्मानुष्ठायी । २ क्ष-प्रमादव्यतिक्रमे । ३ फ-किल्बिषम्। ४ क-ड-फ-क्ष-उत्तमैश्च । ५ फ-उत्तमानुत्तमाम् गच्छन् हीनान् हीनाश्च वर्जधन् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy