________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७७
अध्यायः
मनुस्मृतिः। यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।।
आयुर्विपापवादेन दानं च परिकीर्तनात् ॥ २४० ॥ पूर्वस्य प्रतिषेधस्यार्थवादोऽयम् । अनृतेन हेतुना यज्ञः क्षरति स्त्रवति निष्फलो भवति । यदर्थकृतं तन्न संपद्यते । एवं सर्वत्र ॥ २४ ० ॥
___धर्म शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः ॥
परलोकसहायार्थ सर्वभूतान्यपीडयन् ॥ २४१॥ महति दाने महनि च तपसि महति च यज्ञे ज्योतिष्टोमादौ यद्यसमर्थस्तदा नोदासीनेन भवितव्यम् । किताह शनैः शनैः स्वल्पेन दानेन स्वल्पेन तपसा यथाशक्ति परोपकारेण जपहोमाभ्यां स्मार्ताभ्यां धर्मः संचेतव्यो यथा मृत्संघातं पुत्तिकाः पिपीलिकाः संचिन्वन्ति । परलोकसहायार्थमिति धर्मफलानुवादः । सर्वभूतान्यीयन याश्चया १० धर्मार्थया भूतानां पीडा न कर्तव्या ॥ २४१ ॥
नामुत्र हि सहायार्थ पिता माता च तिष्ठतः ॥
न पुत्रदारं न ज्ञातिधर्मस्तिष्ठति केवलः ॥ २४२॥ भूतानुवादोऽयम् । अमुत्र जन्मान्तरे सहायार्थ नरकादिदुःखादुद्धरणा नं कस्यचित्सुहृद्वान्धवादेः शक्तिरस्ति । केवल एव जीवता यो धर्मः कृतः स तमुद्धरति ॥२४२॥ १५
एकः प्रजायते जन्तुरेक एव प्रलीयते ॥
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४३॥ यथा जन्तुः प्राण्येक एव जायते न सुहृवान्धवादिना सहैक एव प्रलीयते न सुहृदो बान्धवाः सहमरणमनुभवन्ति । यदि नाम भार्याऽन्यो वा भक्तो जनस्तन्मरणकाल आत्मानं हन्यात्तथापि पृथगेवासौ मरणक्रिया । अर्नया न ग.क्यमत्रिवदनुभवन्ति । एवं २० सुकृतदुष्कृते अपि पृथगेवानुभवन्ति । ननु च 'न पुत्रदारम्' इत्युक्तं यावता पुत्रः श्राद्धादिक्रियया पितुरुपकरोत्येव मृतस्यैवं भार्याऽपि । सत्यम् । धार्मिकस्यैव तादृशः पुत्रो भवतीति तत्परमेतत् । यथा जीवतः कस्यचिद्धस्तग्राहिकया कश्चित्सहायो भवत्येवं मृतस्य पुत्रो धर्मद्वारेणैवोपकरोति ॥ २४३ ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ॥ विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ २४४ ॥
२५
१ फ-पुत्रदारा । २ र-ण-नयानयं गर्भारोद्यत्रिवदनुभवति । ३ फ-लोष्ट । ४ र-ण-धर्मस्तिष्ठति
केवलः ।
४८
For Private And Personal Use Only