SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ चतुर्थः मेधातिथिमाष्यसमलंकृता । सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । वार्यन्नगोमहीवासस्तिलकाश्चनसर्पिषाम् ॥ २३६ ॥ पूर्वस्य विधेरर्थवादः । दीयन्त इति दानानि देयद्रव्याणि । दानक्रियैव वा दानम् । ब्रह्मदानं वेदाध्ययनव्याख्याने। वार्यादीनां सर्वदानोत्तमत्वाग्द्रहणम् ॥ २३६ ॥ येन येन तु भावेन यद्यदानं प्रयच्छति ॥ तत्तत्तेनैव भावेन प्रामोति प्रतिपूजितः ॥ २३७ ॥ भावशब्दोऽयं चित्तधर्मे वर्तते । यादृशेन भावेन प्रसन्नेन चित्तन श्रद्धयाऽऽदरेण ददाति तादृशेनैव लभते । अथाश्रद्धयाऽवज्ञया क्लिष्टं परिभूय ददाति सोऽपि तथैव प्राप्नोति । यद्यदपि न द्रव्यजात्यभिप्रायम् । किंतर्हि फलं ? एतदुच्यते । तां तां प्रीति तत्तद्रव्यसाध्यां प्राप्नोति । जात्यभिप्राये ह्यातुरायौषधंदाने औषध एवं लभ्येत । तचाव्याधितस्यानुपयोगीति सोऽप्याक्षिप्येत । तस्मात् यादृश्युल्लासाद्यस्य प्रीतिस्तादृशीं चैव प्राप्नोति । अतश्च सर्वदेवौषधदान अरोगित्वमुक्तं भवति । अथवा इदं मे स्यादिति या फलकामना स भावः। यत्फलममिसंधाय यद्यदन्यं ददाति तत्तत्प्राप्नोति । तेनैव भावेन तयै वेच्छया यदैवेच्छति तदैव लभत इत्युक्तं भवति । सर्वफलत्वं सर्वद्रव्याणां प्रदर्शितं १५ भवति ॥ २३ ॥ योचितं प्रतिगृह्णाति ददात्यर्चितमेव वा ॥ तावुभौ गच्छतः स्वर्ग नरकं तु विपर्यये ॥ २३८ ॥ पूजापूर्वकं दातव्यम् । तादृशमेव च प्रतिग्रहीतव्यं नावज्ञया दातव्यमिति श्लोकस्य तात्पर्यम् । अर्चितामिति क्रियाविशेषणम् ॥ २३८ ॥ २० न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् ॥ नार्तोऽप्यपवदेद्विमान्न दत्वा परिकीर्तयेत् ॥ २३९ ॥ तपसाऽनुष्ठितेन विस्मयं न कुर्यात् । अतितीव्र तपो मया कृतं सुदुश्चरमित्येवं मनसि न कर्तव्यम्। इष्ट्वा यागं कृत्वाऽनृतं न वदेत् । अविशेषेण प्रतिषिद्धस्यापि पुरुषार्थ तया, पुनः प्रतिषेधो यागाङ्गत्वज्ञापनार्थः । प्रतिषेधातिक्रमे हि ज्योतिष्टोमादेरङ्गहीनता २५ भवति । आः पीडितोऽपि ब्राह्मणैर्न तानपवदेन निन्दत । दत्वा गवादि द्रव्यं न कस्यचिदग्रतः परिकीर्तयेदिदं मया दत्तम् ॥ २३९ ॥ १ क-ण-क्ष-ह्यातुराद्यौपधवम् । २ फ-लभ्यते तत्तद्वाच्या तस्यानुपयोगीति सोऽप्याक्षिपेन् । तथा याद्दयस्या। ३ क्ष-अरोगितत्वम् । । फ-च । ५ ण-स्वर्गे । ६ फ-कुर्यादिति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy