________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मातेः। वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः॥ .
अनडुद्दः श्रियं पुष्टां गोदो ब्रनस्य विष्टपम् ॥ २३४ ॥ . चन्द्र इव लोक्यते सर्वस्य प्रियदर्शनो भवति । इतिहासदर्शने चन्द्रलोको नाम स्वर्गस्थानविशेषस्तमाप्नोति । अश्विनामश्ववतां सालोक्यं बव्हश्वतां प्राप्नोति । दर्शने पुनरश्विनोलोकमाप्नोति । अनडान्पुङ्गवः शकटवहनसमर्थस्तं ददतः पुष्टा महती ५ श्री!जाविधनधान्यादिसंपद्भवति । ब्रन आदित्यस्तस्य विष्टपं स्थानमाप्नोति । महातेजाः सर्वस्योपरि भवति।स्वर्गो वा बन्नविष्टपम् । स्मृत्यन्तरेऽनसो विशेषाश्रयः फलविशेषः श्रूयते ॥ "हेमशृङ्गी रूप्यखुरा सुशीला वस्त्रसंवृता।सकांस्यपात्रा दातव्या क्षीरिणी गौः सदाक्षिणा॥"
___सुदक्षिणेति पाठेऽन्यदपि सुवर्णादि तत्र दातव्यम् । शोभनार्थे वा सुशब्दः पठितव्यः । सा गौः शोभना दक्षिणादीनाम् । कास्योपदोहेति पाठान्तरम् । कांस्यं नाम १० परिमाणविशेषः । तत्रोपदुह्यते बहुक्षीरेत्यर्थः । " मुक्त्वा लाङ्गलभूषितां भूमिं तु रूपसंच्छन्नां कृत्वा " इत्यादिस्मृत्यन्तरदृष्टो विधिः फलविशेषार्थिनाऽऽश्रयणीयः । तथा "कपिला चेत्तारयति भूय आ सप्तमात्कुलात्। सवत्सा रोमतुल्यानि युगान्युमयतोमुखी॥" ___वत्सवत्याः कपिलाया दान एतत्फलम् । उभयतोमुखी दीयमाना रोमतुल्यानि वर्षसहस्राणि स्वर्गः प्राप्यते तारयति पापान्मोचयति । भारते सर्वफलं गोदानमुक्तम् । १५ (अनु. १०६-१०९ । २३१ (३१-५०); अश्व १०२५)वार्यादीन्यपि स्वर्गफलानि श्रूयन्ते ।
"भूमिपश्वन्नवस्त्राम्भस्तिलसर्पिष्प्रतिश्रयान् । नैवेशिकस्वर्णपुर्या दत्वा स्वर्गे महीयते ॥" नैवेशिकं वेश्म ॥ २३४॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः॥
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्टिताम् ॥ २३५॥ २० ' ऐश्वर्यमीश्वरत्वं प्रभुत्वम् । सुखित्वं सौख्यम् । धान्यानि व्रीहिमाषमुद्गादीनि । तिलानां फलान्तरमुक्तम् । ब्रह्म वेदः तद्ददाति योऽध्यापयति व्याख्याति च । ब्रह्मसाटिता । अर्षणमृष्टिः । समा ऋष्टिर्यस्य असौ सार्टिः । छान्दसत्वात्समानस्य स भावः । ऋषि गतौ । अर्षणं वा सार्टिः। तद्भवा सार्टिता । उभयथाऽपि ब्रह्मणः समानगतित्वमेतत्तुल्यत्वमित्युक्तं भवति ॥ २३५॥
१ क-ड-ण-क्ष-व्याख्यायति । २ण-र-ब्रह्मसार्टिताना रेषणम् ।
For Private And Personal Use Only