SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ चतुर्थः यो ब्राह्मणः सर्वगुणोपेतः श्रोत्रियग्रहणस्य प्रदर्शनार्थत्वात् । श्रोत्रियो विद्वान्विहितधर्मानुष्ठानपरः । किन्तु कदर्यः कृपणो मित्रं ज्ञातिमतिथिमर्थिनं नाभिनन्दति न कस्मैकिंचिदपि दातुमीहते । इतरो वाधुषिर्दुष्टकर्मा वृद्धिजीवी । अथ वदान्य उदारः श्रद्दधानो गृहागतेषु परितुष्यति श्रद्धया भोजनादिना पूजयति । तयोरन्नं देवाः समं तुल्यमकल्पयन्व्यवस्थापितवन्तः । यदि नामैको गुणवान्साधुचरणस्तथापि कदर्यतयोपहतः । उक्तं हि " लोभः सर्वगुणानिव" इति । इतरो यदि नाम श्रद्दधानः तथापि कर्मदोषादप्रशस्तः । एवं मीमांसित्वा विचार्य देवैर्व्यवस्था कृता तुल्यमेतदिति ॥२२४॥ तान् प्रजापतिराहैत्य मा कृढं विषमं समम् ॥ श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ २२५ ॥ देवान्प्रजापतिरागत्याचष्ट मा कृमेवम् विषमं समीकरणमन्याय्यम् । कः पुनरनयोरधिक इति देवा ऊचुः । पुनः प्रजापतिराह । वदान्यस्य श्रद्धावतो यदन्नं तत्पूतं पवित्रं श्रद्धया वाधुषेः । इतरद्यदन्नं श्रोत्रियस्य तत्कर्मणोपहतमप्रशस्तम् । देवप्रजापतिसंवादोऽर्थवादः । अश्रद्दधानस्य गुणवतोऽपि न भोक्तव्यमादरेण शूद्रस्याफि भोक्तव्यम् ॥ २२५ ॥ श्रद्धयेष्टं च पूर्त च नित्यं कुर्यादतन्द्रितः ॥ श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ २२६ ॥ इष्टमन्तर्वेदि यत्क्रियते यज्ञादि कर्म । पूर्त ततोऽन्यत्र संमानाद्यदृष्टार्थम् । ते श्रद्धया कर्तव्ये । तथा स्वागतैश्च धनैः शोभनेनागच्छन्ति यानि धनानि श्रुतं शौर्य तपःकन्यादिना । एवमक्षयेऽक्षयफले भवतः । यानि तु न स्वागतानि नाक्षयफलानि न २० पुनर्निष्फलानि । तथाहि तैरपि स्वाम्यमुत्पद्यते । तेन च यागादयः कर्तव्याः । न च यागदानादिप्रकरणे कुसीदादिप्रतिषेधः श्रुतो येन तदङ्गं स्यात् । तम्माद्यावन्न स्वर्गोत्पत्तिहेतवः तैरजितेन धनेन यागादयः कर्तव्याः । फलस्य तु प्रकर्षापकर्षों भवतः॥२२६ ॥ *के पुनस्ते प्रशस्तधनोपाया अत उच्यते श्रुतशौर्यतपःकन्यायाज्यशिप्यान्वयागतम् । धनं सप्तविधं शुद्धं उभयोऽप्यस्य तद्विधः ॥ २२७ ॥ तत्र श्रुततपसी प्रतिग्रहनिमित्तं एकोऽपि प्रतिग्रहो निमित्तभेदाद्भेदेनोक्तः । १ र-श्रुतत्रशोर्यनया । २ फ-कन्यादीनि । * अतःपरं २२९ श्लोकान्तपर्यंत श्लोकत्रयं मेधातिथि. शकायामेवोड़तम्। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy