________________
Shri Mahavir Jain Aradhana Kendra
- अध्यायः ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् || मत्या भुक्त्वाऽऽचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ।। २२२ ॥
1
त्र्यहं क्षपणमभोजनम् । अमत्याऽबुद्धिपूर्वम् । बुद्धिपूर्वे तु कृच्छ्रं चरेत् । तच्च कृछ्रं स्मृत्यन्तरैकवाक्यत्वात्तप्तकृछ्रम् । तत्र रेतोविण्मूत्रप्राशने तप्तकृच्छ्रमाम्नातम् । मत्या पाने पयोघृतमुदकं वायुः प्रतित्र्यहं तप्तातिकृच्छ्रः । ततोऽस्य संस्कार इति । अप्रकरणे च प्रायश्चित्तवचनं दोषातिशयदर्शनार्थम् । अन्यतमस्येतिषष्ठीनिर्देशात्परिग्रहदुष्ट एवेदं प्रायश्चित्तं मन्यन्ते न कालस्त्र भावसंसर्गदुष्टे । शुक्तपर्युषितादौ चतुर्विधं ह्यभोज्यम् । कालदुष्टं शुक्तपर्युषितादि । संसर्गदुष्टं मद्यानुगतादि । स्वभावदुष्टं लशुनादि । परिग्रहदुष्टं प्रकृताभोज्यान्नानां यत् । अत्रोच्यते । सत्यं । चतुर्विधमभोज्यं भवति । षष्ठीनिर्देशोऽप्यस्ति । किंतु यदि शुक्तादेनेदं प्रायश्चित्तं स्यात्तदिह प्रकरणे तेषामुपादानमनर्थकमेवापद्येत । १० पञ्चमे हि तयोः प्रतिषेधो नास्ति । तस्मादिह प्रायश्चित्तार्थमेवैवमादीनामुपादानम् । तत्र तर्हि किमर्थं ? तत्रैव वक्ष्यामः । यद्यपि 'गर्हिती नाद्ययोर्जग्धिः ' ' अभोज्यानां तु भुक्त्वाऽन्नमिति'च तत्सर्वमेकादशे विभागतो निर्णेष्यते ॥ २२२ ॥
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः ॥ आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ २२३ ॥
३७१
१५
अविशेषेण शूद्रान्नं प्रतिषिद्धं तस्येदानीं विशिष्टविषयतोच्यते । अश्राद्धिनः । क्च पुनः शूद्रान्नं प्रतिषिद्धम् । “ शूद्रस्योच्छिष्टमेव च " इत्यत्र । ननु च तत्र शूद्रस्यो - च्छिष्टं प्रतिषिद्धं नान्यदन्नम् । नेति ब्रूमः । एवं तत्र संबन्धः । शूद्रस्यान्नं नाद्यादुच्छिष्ट1 मन्यस्यापि । यत्तु प्राग्व्याख्यातं तत्पूर्वेषां दर्शनमित्यस्माभिरपि संवर्णितम् । अश्राद्धिनः श्राद्धशब्देन पाकयज्ञादिक्रिया शूद्रस्य विहिता लक्ष्यते ततस्तत्क्रियाननु- २० ठायिनः सच्छूद्रादन्यस्य यत्पैक्कमन्नं तन्नाद्यात् । अश्रद्धिन इति वा पाठ: । अश्रद्धावानित्यर्थः । तथा चोत्तर श्लोके श्रद्धायाः प्राधान्यमेवाह " वदान्यस्येति " । आमं शुष्कं धान्यं तण्डुलादि । तथैकरात्रिकमेकस्मिन्नहनि पर्याप्तं न बहु ॥ २२३ ॥ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ॥
मीमांसित्वोभयं देवाः सममन्त्रमकल्पयन् ॥ २२४ ॥
For Private And Personal Use Only
२५
१ फ - मन्यते । २ अ. ११ श्लो. ५६ । ३ अ. ११ श्लो. १५२ । ४ [ चन्द्रसूर्यग्रहे नाद्यादद्यात्स्नात्वा तु मुक्तयोः ॥
अमुक्त योर गतयो रद्याञ्चैव परेहनि ॥१॥*] इति फ पुस्तकेऽधिकः पाठो दर्शितः । ५ फ-यत्यक्तं ।