SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८ मेधातिथिभाष्यसमलंकृत।। [ चतुर्थः यचपला । दाम्भिको बैडालव्रतिकादिः सोपधोधर्मचरणः। प्रायश्चित्तविशेषार्थ शूदोच्छिष्टं प्रतिषिध्यते । सर्वस्यैवोच्छिष्टभोजनप्रतिषेधात् । अन्ये तु शूद्रोच्छिष्टं स्थालीस्थं भोज्यान्नं शूद्रभुक्तशिष्टमुच्छिष्टमुच्यत इत्याहुः । पाठान्तरं तु “ उच्छिष्टमगुरोस्तथेति'। उच्छिष्टमुच्यते यत्परस्य स्पर्शनादशुद्धं भुक्तोज्झितं च । आत्मीये ह्यभुक्तोऽज्झित एकग्रासाशनमेव स्यात् । न चैष शिष्टानां समाचारो यत्सकृदन्नं दत्तं भुक्त्वा पुनराचम्य पात्रान्तरे गृहीतं भुज्यते । तथा नाद्यादन्नम् । तथान्तरेऽभ्युत्थानादिक्रियान्तरस्य प्रतिषेधः । अत आतृप्तेः प्रागाचमनात्पश्चात्स्पर्शे न दोषः । सहभोजनं तु सत्यपि परस्य स्पर्श पदार्थान्तरत्वान्नोच्छिष्टभोजनम् । अत्र पित्रा पुत्रादिभिः शिष्टं सह भुज्यते । तथा चापस्तम्बादयो देशग्रहणात्प्रसङ्गेन "अनुपनीतेन सह भोजन" निन्दन्ति। नोपनीतेन । अस्मिंस्तु पक्षे विजातीयैः सह भोजनप्रतिषेधः । व्यवधानान्तरमाश्रयणीयम् । भुक्तोज्झितं तु धात्वर्थयोगादुच्छिष्टमन्यदीयमपि ॥ २११ ॥ चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं सूतिकानं च पर्याचान्तमनिर्दशम् ।। २१२ ॥ स्मृत्यन्तरे विशेषः श्रूयते । " शैल्या नर्तकनीविनः " । मृगयुमंगव्याधः । १५ आखेटकार्थ मांसविक्रयार्थ वा यो मृगान्हन्ति । क्रूर अनृनुप्रकृतिः दुष्प्रसादः । उच्छिष्ट भोजी निषिद्धोच्छिष्टमोजी । उग्रो जातिविशेषः । राजेत्येतस्य वेदे प्रयोगो दृश्यते । "उग्रो मध्यमशीरि वेति' । न च तस्यान्यः प्रतिषेधोऽस्ति दोषप्रदर्शनप्रकारेण च न श्रूयते " राजान्नं तेज आदत्ते " इत्यर्थवादाच्च प्रतिषेधः । सूतिकानं सूतिकामुद्दिश्य यत्कृतं तत्कुलीनैरपि तदभोज्यम् । तदनाद्यमनिर्दशं दशाहानि यावत् । तेन यद्यपि क्षत्रियादीनां २० दशाहादूर्ध्वमाशौचं तथापि दशाहानि न भोज्यम् । पाठान्तरं सूतकान्नमिति । सतक शब्देन च तद्वन्तः पुरुषा लक्ष्यन्ते । येषां कुले सूतकं ते दशाहं न भोज्यान्ना इति । यस्मिन्पक्षे सर्वेषां दशाहं सूतकाशौचं तत्रायं प्रतिषेधः । यदा तु मातापित्रोः सूतकं मातुर्वेति पक्षस्तदा यावदाशौचं न भोज्यम् । अनिर्देशग्रहणमाशौचनिवृत्त्युपलक्षणार्थम् । तेन क्षत्रियादीना यस्य यावदाशौचकालः स तावत्कालमभोज्यान्नः । " सूतकान्नमनिर्दशमिति, २५ पठितव्ये वृत्तानुरोधात्सर्याचान्तपदेन व्यवधानम् । अन्यैस्तु स्वतन्त्रमनिर्दशग्रहणं व्या ख्यातम् । सूतकशब्देन आशौचकालोऽनुद्योत्यते । अनिर्दशं गवादीनां पयः पर्याचान्तं शौचाचमनव्यपेतमर्धभुक्ते केनचित्कारणेन यद्याचामति तदा पुनर्मुक्तोज्झितं नाशितव्यम् ॥ २१२ ॥ १ फ-सोपधियोगधर्मचरणः । २ फ-शल्यानर्तकजीविनः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy