________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ चतुर्थः पूर्वेण श्लोकेन व्रताधिकारो विच्छिन्नः । इदानी प्रतिषेधप्रकरणमारभ्यते नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ॥ स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः कचित् ॥ २०५॥
तत्र भोजनमेव तावदर्थित्वाद्यत्रकुत्रचित्प्राप्तं निषिध्यते । अश्रोत्रियोऽनधीयानस्तेन तते प्रारब्धे यज्ञ ऋत्विम्भिर्वाऽश्रोत्रियस्तते न भुञ्जीत ब्राह्मणः । ग्रामयाजी ग्रामयाजक स्तेन यत्र हूयते यत्र च स्त्री होमं करोति । छान्दोग्ये हि स्त्रीणां गृह्यस्मृतिकारैरग्निहोत्रहोम उक्तोऽतस्तं पश्यन्प्रतिषेधति । अथवा यत्र यज्ञे स्त्री प्रधानं भर्ता दारिद्र्यादि. दोषैरुपहतः स्त्री चासौदायिकेन धनेन ज्ञातिबलेन च दर्पिता तत्रायं प्रतिषेधः । क्लीबो नपुंसकम् ॥ २०५ ॥
अश्लीलमेतत्साधूनां यत्र जुहत्यमी हविः॥ प्रतीपमेतद्देवानां तस्मात्तत्त्परिवर्जयेत् ॥ २०६ ॥
पूर्वस्य प्रतिषेधविधेरर्थवादोऽयम् । अश्लीलमश्लाघ्यं साधूनाम् शिष्टानाम् । यत्र ह्येते हविर्जुन्हति यज्ञं कुर्वन्ति देवानां प्रतीपं प्रतिकूलं तस्मादीशे गमनं परिवर्जयेत् ॥ २०६ ॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ॥ केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ २०७ ॥
यावन्मदादियोग एतेषां तावदभोज्यता । अन्ये बाहुल्यं मन्यन्ते। बाहुल्येन यः क्षीबो भवति मद्यशौण्डस्तदन्नं न भोक्तव्यम् । एवं क्रोधप्रधानस्य भृशंकोपनस्य च प्रायेण चातु
रस्य रोगामयव्याधेः । केशकीटैरवपन्नं संसर्गेण दूषितम् । कीटाश्च केचिन्मृता दूषयन्ति २० न जीवन्तो यथा मक्षिका गृहगोधाश्च । अन्ये तु जीवन्त एव । कीटग्रहणं क्षुद्रनन्तूनां
कृमिपतङ्गानामपि प्रदर्शनार्थम् । केशग्रहणं नखरोम्णां दूषिकादीनां मलानां समाचारात् । पादेन बुद्धिपूर्व कामकारेण स्पृष्टम् । प्रमादतस्तु न दोषः ॥ २०७ ॥
भ्रूणनावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । पतत्रिणाऽवलीढं च शुना संस्पृष्टमेव च ॥ २०८ ॥
भूणहा ब्रह्मनस्तेनावेक्षितं निपुणतो दृष्टम् । प्रदर्शनं चैतदन्येषामपि । पातकिना स्पृष्टस्य तु प्रतिषेधः स्नानविधानादेव सिद्धः । उदक्या रजस्वला तया स्पृष्टस्य प्रतिषेधो नावेक्षितस्य ।
१फ-दर्शित्वान् । २ फ-अश्लीकम् । ३ र-प्रमादस्तु ।
For Private And Personal Use Only