SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ३६५ यानादिनि परकीयान्यदत्तान्युपयुञ्जान एनसस्तदीयस्य तुरीयभाक् चतुर्थ भागं प्राघुयात् । अत्र कश्चिदाह । अदत्तानीतिवचनात्सर्वार्थतयाऽप्युपकल्पितानि नोपयोज्यानि । तदयुक्तम् । परकीयाधिकारात् । न च तानि परकीयानि । त्यक्तं हि तत्सम्यक् । तुरीयग्रहणमविवक्षितमिति प्रागेव व्याख्यातम् ॥ २०२ ॥ नदीषु देवखातेषु तडागेषु सरःसु च ॥ स्नानं समाचरेन्नित्यं गतप्रस्रवणेषु च ॥ २०३ ॥ सर्वा नद्यो देवखाता अतस्तासामुभयथा संभवाद्देवखातग्रहणवाच्यत्वेन तल्लिङ्गं पठितव्यम् । तडागादीनि हि देवखातानि मनुष्यखातान्यपि सन्ति । न च देवैः खन्यन्ते। केवलं महत्वं स्मर्यमाणकर्तृकत्वेन लक्ष्यते ॥ २०३ ॥ र्यमान्सेवेत सततं न नित्यं नियमान्बुधः॥ यमान्पतत्यकुर्वाणो नियमान्केवलान् भजन ॥ २०४ ॥* प्रतिषेधरूपा यमा "ब्राह्मणो न हन्तव्यः" "सुरा न पेया" इत्यादयः । अनुष्ठेयरूपा नियमाः "वेदमेव जपेन्नित्यं " इत्यादयः । न नित्यं नियमान् नानेन नियमानामसेवोच्यत किंतु यमानां नियमेभ्यो नित्यत्वम् । तथा चाह । यमान्पतत्यकुर्वाणः । ब्रह्महत्यादिर्यमलोपे सति पंतितत्वात्सन्निधोपासनादिभिर्नाधिक्रियते । न तु तथा नियमलोपे। १५ तथा च शिष्टस्मरणम् “ पतति नियमावान्यमेष्वसक्तो न तु यमवान्नियमालसोऽवसीदेत् । " न नियमानसमीक्ष्य बुद्ध्या यमबहुलेष्वतिसंदधीत बुद्धिम् " ॥ इति येपामपि पारिभाषिका यमनियमाः " अहिंसा सत्यवचनं ब्रह्मचर्यमकलकता। अस्तेयमपि पञ्चैते यमाश्चैव व्रतानि च ॥ २० " अक्रोधो गुरुशुश्रूषा शौचमाचरलाघवम् । अप्रैमादश्च नियमाः पञ्चैवोपव्रतानि च ॥" तेषामपि गुरुलाघवमनेन श्लोकेन प्रतिपाद्यते । अतो नानेन यमानां सेवीच्यते । नापि नियमानामसेवा । उभयेषां तैः शास्त्रविहितत्वात् ॥ २०४ ॥ १र-ण-+च । २ फ-ब्रह्महादिः । ३ क्ष-तथा संध्योपासनादिभिर्नाधिः । ४ फ-ननु । ६ र-ण-अप्रमादाश्च । *[आनृशस्यं क्षमा सत्यमंहिंसा दममस्पृहा॥ध्यानं प्रसादो माधुर्यमार्जवं च यमा दशा ॥१॥] [अहिंता सत्यवचनं ब्रह्मचर्यमकल्पता॥ अस्तेयमितिपश्चैते यमाश्चोपत्रतानि च ॥२॥] शौचमिज्या तपोदानं स्वाध्यायोपस्थनिग्रहो॥व्रतोपवासौ मौनंच स्नानं च नियमादशा। [अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्॥अप्रमादश्च नियमाः पश्चैवोपव्रतानिच॥४॥1] For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy