________________
Shri Mahavir Jain Aradhana Kendra
३६४
मेधातिथिभाष्यसमलंकृता ।
प्रेत्येह चेदृशा विमा गर्ह्यन्ते ब्रह्मवादिभिः ॥
छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ १९९ ॥ इह पदार्थस्वाभाव्येनान्योद्देशेनापि कृतं यत्फलं ततो भवत्येव । तथाहि गुरुनियोगे प्रवृत्तो धर्मेद्देशेन गुरुवचनं करोमीति न कामहेतोः । अर्थः 1 स्वाभाव्यात्तु कामं प्रतिनयति । एवं कश्चिन्मन्यते व्रतानि पापापनोदार्थानि । तानि अन्योद्देशेनापि क्रियमाणानि न स्वभावं जहति । एवमेतन्मम प्रायश्चित्तमुभयार्थी भविष्यति । लोके तपस्वीति ख्यातो भविष्यामि । पापं चापनोत्स्यते । तस्यैवं बुद्धिमतो निवृत्त्यर्थमिदमारभ्यते । तदेतद्व्रतं छद्मना चरितमनुष्ठितं रक्षांसि गच्छति निष्फलं भवति न पापमपनुदतीत्यर्थः । न केवलं कार्याकरणं भवति यावदीदृशो विमा व्रतचारिणो गर्ह्यन्ते निन्द्यन्ते ब्रह्मवादिभिः १० वेदप्रमाणज्ञैः शिष्टैः ॥ १९९ ॥
1
५
www.kobatirth.org
२०
Acharya Shri Kailassagarsuri Gyanmandir
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ॥
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ २०० ॥
प्रत्याश्रमं लिङ्गधारणं यथा ब्रह्मचारिणो मेखलादिधारणं गृहस्थस्य वैणवदण्डकुण्डलकमण्डल्वादि वानप्रस्थस्य चर्मचीरजटादि परिव्राजकस्य कषायवसनदण्डादि । १५ एतेन वेषेणानाश्रमी यो भिक्षा हेतोर्लोके चरति वृत्तिमुपजीवति स लिङ्गिनामेनः पापं हरति आनृण्यं तर्पयति । तिर्यग्योनौ तिरश्चां श्वशृगालादीनां योनौ जायते । न चात्रैतदाशङ्कनीयं लिङ्गिनां यत्पापं तत्तेभ्योऽपसृत्य तस्मिन्संचरतीत्यसंभाव्यम् । अकर्तव्यता परलिङ्गधारणात्प्रतीयते । अश्रुतेऽपि प्रतिषेधे निन्दार्थवादादेव तदवगतिः ॥ २०० ॥ परकीयनिपानेषु न स्नायाद्धि कदाचन ॥
निपानकः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ २०१ ॥
[ चतुर्थ
निपिबंत्यस्मिन्नतो वेति निपानं जलाशयः । स च वापीकूपतडागादिः । तस्मिन् परकीये परेण यदात्मार्थं कृतं सर्वार्थ नोत्सृष्टं तत्र न कदाचित्स्नायात् । नित्यं चण्डालादिस्पर्शने च नैमित्तिकं धर्मस्वेदापनोदार्थ च सर्व स्नानं प्रतिषिध्यते । अत्र व्यतिक्रमे दोषमाह । निपानस्य यः कर्ता तस्य यत्किचिदुष्कृतं तस्य केनचिदंशेन भागेन लिप्यते २५ संबंध्यते । निन्दार्थवादोऽयं प्रतिषेधशेषः ॥ ३०१ ॥
यानशय्यासनान्यस्य कूपोद्यानगृहाणि च ॥
अदत्तान्युपभुञ्जान एनसः स्यात्तुरीयभाक् ॥ २०२ ॥
For Private And Personal Use Only
फ-अर्थस्त्राभाव्यत्तु; र-ण- फ- कर्म । २ फ-परोद्देशेनापि । ३ र-ण-लिङ्गवेषेण । ४ण - दण्डधारणादि । ५ फ - परलिङ्गाधारणात् । ६ र-ण- दुःकृतांशेन । ७ फ-प्रतिषेधः ।