________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
३६३
केचिदत्र श्लोकं पठन्ति । "यस्य धर्मध्वनो नियं सुरध्वन इवोच्छ्रितंः ।प्रच्छन्नानि च पापानि बैडालं नाम तद्रतमिति'। एष एवार्थः संक्षेपेण कथ्यते । एकैकगुणसंबन्धे बैडालबतिको ज्ञेयः । अस्मादेव श्लोकादेवमनुमीयते । प्रच्छन्नानि च पापानीति विशेषाश्रवणात् सर्वेषां चैषां पापत्वादुर्भयथाऽऽचार्येण शिष्याः प्रतिपादिताः । केचिदिमं श्लोकमध्यापिताः केचित्पूर्वम्। ५ उभयं च प्रमाणम् । तेन यद्यपि अङ्गदी कुण्डली पीनस्कन्धः पृथुवक्षा देवदत्त इति समुदितानां लक्षणत्वं प्रतीयते तथापीह प्रत्येकमेतानि लक्षणानि ॥ १९५ ॥
अधोदृष्टिनैष्कृतिकः स्वार्थसाधनतत्परः॥
शठो मिथ्याविनीतश्च बकवतचरो द्विजः ॥ १९६॥ बकव्रतलक्षणमधोनिरक्षिणम् । अथवा नीचदृष्टिः। नीचो दीनः । सर्वदैव व्यापार- १० यति कथंचित्कुतश्चन लभतेऽधमादपि गृह्णाति । निष्कृतिनिष्ठुरता तया चरति तत्प्रधानो नैष्कृतिकोऽसम्यग्भाषी । अलीकविनतिः श्रयति प्रश्रयं नम्रतां कार्ये तु व्याघातकः । बिडालोऽलीकनिद्रां करोत्यामिष लिघुक्षन् । एवं सोपंधौ धर्मचरणो बैडालतिक उक्तः। तथैव वकवतचरोऽपि।बका हि मत्स्यान गृह्णन्तो जलचरेववज्ञां दर्शयन्ति । अथ च मत्स्यग्रहणबुद्धय एव । व्रतेनं शीलितं कर्मोच्यते । प्रदर्शितं पदानामपौनरुक्त्यम् । अथापि १५ स्याल्लक्षणत्वाददोषः । अविज्ञातं हि लक्षणं भवति। पौनःपुन्याभिधानेन सुग्रहोऽर्थो भवति । कः पुनः बैडालव्रतिकबकवतिकोभेदः ? उच्यते । अयं स्वार्थसाधनपरो नान्यस्य कार्य विहन्ति । पूर्वस्तु मात्सर्यात्स्वार्थसिद्धावसत्यामपि परस्य नाशयति ॥ १९६ ॥
ये बकवातिनो विप्रा ये च मार्जारलिङ्गिनः ॥ ते पतन्त्यन्धतामिस्र तेन पापेन कर्मणा ॥ १९७ ॥ स्वंशब्दैश्च व्याख्यातः श्लोकः ॥ १९७ ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ॥
व्रतेन पापं प्रच्छाद्य कुर्वन्त्री शूद्रददम्भनम् ॥ १९८ ॥ पापं कृत्वा व्रतं प्रायश्चित्तं न कुर्यात् । धर्मस्यापदेशेन धर्ममपदिश्य लोके ख्यापयति धर्मार्थमहं व्रतं करोमि न मे प्रायश्चित्तनिमित्तमस्तीति परमार्थतस्त प्रायश्चित्तार्थ. २९ मेव करोति एवं न कर्तव्यम् । पापं प्रच्छाद्यापहृत्य तेन व्रतेन स्त्रीशूद्रदम्भनं न कुर्यात् । प्रकटं प्रायश्चित्तं कर्तव्यमन्यत्र रहस्यात् ॥ १९८ ॥
१र-ण-उभयं यथा । २ फ-पाठिताः । ३ र-ण-व्यापयति । ४ र-ण-नि. कुति । ५ ण-व्याघातः ६ र-ण-गर्गराजलिघृक्षः । ७ फ-सोपाधेः । ८ र-ण-चरण । ९ र-जलचरेवज्ञा; ण-जलचरणवज्ञा । १० फ व्रतानि । ११ फ-अपौनरुक्तम् । १२ र-ण-स्वशब्दश्च व्याख्याताःश्लोकाः ।
For Private And Personal Use Only