________________
Shri Mahavir Jain Aradhana Kendra
३६२
१०
१५
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः
बिडालव्रतेन चरति बैडालव्रतिकः । बकानां व्रतं तदस्यास्तीति वकव्रतिकः । अधिकैरणविवक्षायां सप्तमी । संप्रदानविवक्षायां चतुर्थी युक्ता ॥ ९९२ ॥
त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् ॥ दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ १९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धनग्रहणादन्नदानं न निषिध्यत इत्युक्तं भवति । विधिनाऽप्यर्जितं सत्प्रतिग्रहक्रयादिना शास्त्राभ्यनुज्ञातेन प्रकारेण दातुरादातुश्च तादृशं दानं परत्रो भयोरनर्थाय ॥ १९३ ॥
यथा वेनोपलेन निमज्जत्युदके तरन ||
तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ १९४ ॥
औपल आश्मनः । जलसंतरणाय नावादिः प्लवस्तेन यस्तरति तरितुं प्रवर्तते । सोऽघस्ताज्जलस्य मज्जत्यन्तर्धीयते । एवमज्ञौ दातृप्रतीच्छकौ । प्रतीच्छकः प्रतीच्छां करोतीति णिचं कृत्वा ण्वुल्कर्तव्यः । प्रतीप्सक इति पाठान्तरम् । तत्र सन्नन्तादानोतेर्म्युल् । अर्थस्तृभयोरेक एव ॥ १९४ ॥
धर्मध्वजी सदालुब्धाको लोकदम्भकः ॥
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ।। १९५ ॥
उपचारेणैतौ शब्दौ प्रयुज्येते । अनेकस्मिंश्चोपचार हेतौ स एव संभवति । यन्निमित्तं प्रयोगस्तदवधारणप्रतिषेधविषैयप्रक्लृप्त्थम् । धर्मो ध्वजमिव व्याघ्रादेरा कृतिगणत्वात्समासः । कदाचित्कर्मधारयः सर्वधनाद्यर्थं इति । ततः सोऽस्यास्तीति मत्वर्थीयः । ख्यात्यर्थमेव धर्म करोति न शास्त्रपरतया स एवमुच्यते । यस्तत्रैव धर्म करोति यत्र २० जनाः पश्यन्ति स्वपुरुषैश्च ख्यापयन्ति धार्मिकत्वप्रसिद्ध्या । प्रतिग्रहादि लप्स्य इति लुब्धो मत्सरी कृपणश्च । लोकं दनोति वञ्चयति लोकदम्भकः । छद्मना चरति छाद्मिकः । छद्म व्याजः । प्रकाश धार्मिको रहसि निक्षिप्तमपहरत्यप्रकाश्यं प्रकाशयति । धार्मिकोऽयमेतस्य यत्समक्षं कथितं तन्नान्यत्र यातीति केनचिद्विश्वस्य कथितं दृश्यते यावद्यत एव गोप्यं तस्यैव मुखाज्जातमिति परद्रोहः । सर्वेषां चाभिसंधाताऽऽक्षेपकः परगुणान्न सहते । २५ ईदृशो बैडालव्रतिको ज्ञेयः । अभिसंघकः अभिसंधत्त इति " आतश्चोपसर्ग ' ( व्या. सू. ३।१।१३६ ) इति कः । ततः स्वार्थे कः । सर्वेषामभिसंघक इति षष्ठीसमासः ।
१ अ - अपादानविवक्षायां । २र-ण-अपलः । ३ – प्रतिच्छायां । ४ अ-ण-सर्वातिसंधकः । ५ र-ण- विषयः । ६ व्या -सू - ( २।१।५६ ) । ७ र लुब्धात्ममत्सरः; ण-मत्सरः । ८ फ- नान्यत्र ।
For Private And Personal Use Only