________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
३६१
यस्य तपो नास्त्यनधीयानो न चाधीते । अध्ययनेन प्रकृता विद्वत्ता लक्ष्यते । समुदिते चैते विद्यातपसी प्रतिग्रहाधिकारनिमित्तम् । उभयगुणभ्रष्टः प्रतिग्रहे चाभिलाषी स तेन सह मज्जत्यधोगच्छति । केन सह अन्यस्यानिर्देशाद्दातुश्च सन्निधानात्तेन सहेति गम्यते । प्रतिग्रहीतारं लवमिवात्मोत्तारणायाश्रयते । यस्त्वीदृशोऽपात्रभूतः स दातारमात्मानमुभावप्यधो नयति यथाऽम्भस्यश्मप्लवोऽश्ममयः प्लवः अश्मप्लवः । पारं ५ तरति येन स प्लवो नावादिः । तत्र यथाऽश्मन्यारूढो नदीतरणार्थमम्भसि मज्जत्यश्मप्लवेन सह गम्यते । दाता हि ब्राह्मणाय ददानश्च तादृशो ब्राह्मण उभावपि नरकं गच्छतः ॥ १९०॥ तस्मादविद्वान्विभियाद्यस्मात्तस्मात्प्रतिग्रहात् ॥
स्वल्पकेनाप्यविद्वान्हि पङ्के गौरिव सीदति ।। १९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अतो नरकभयादविद्वान्मूर्खः प्रतिग्रहात् विभियात् नश्येन प्रतिगृह्णीयादिति १० यावत् । तिष्ठतु तावद्धिरण्यादीनि द्रव्याणि । स्वल्पकेनापि त्रपुसीसादिना असारेण स्वल्पया मात्रया प्रतिगृहीतेनाविद्वान्पङ्के कर्दमे गौरिव सीदति ॥ १९९ ॥
न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे ॥
न बकव्रतिके पापे नावेदविदि धर्मवित् ।। १९२ ।।
प्रतिग्रहीतुर्धर्म उक्तः । इदानीं दातुरुच्यते । अपिशब्दात्सर्व देयं निवार्यते । १५ यत्र वारि न कस्मैचिद्वार्यते तदपि नैभ्यो दातव्यं कुतोऽन्यद्रव्यं दीयते । अतिशयोक्त्या द्रव्यान्तरदाननिषेधोऽयम् । वारिणस्तु सर्वार्थत्वादनिषेधः ।
66
ननु च बैडालव्रतिकान्त्राङ्मात्रेणापि नार्चयेत्" इत्युक्तमेव । सत्यम् । तत्राच निषिद्धा । इह तु दानम् । तच्च धनस्य नान्यस्य । एवं द्विः प्रतिषेधोऽर्थवान्भवति । तथा चोत्तरत्र वक्ष्यति “ विधिनाऽर्घ्यर्जितं धनमिति " ( लो. १९३ ) । २० अतः पाषण्डयादिभ्यः सावज्ञमन्नदानं ने निषिध्यते । अत्र कश्चिदाह यद्यवेदविदीति श्रुतं तथाऽप्यनधीयान इत्यपि द्रष्टव्यम् । तथाहि केवलवेदाध्यायिभ्यो दानमुक्तम् । न च दाम्भिकेभ्यः काम्ययुक्तम् । स इदं प्रष्टव्यः पुनर्वेदाध्यायिमात्राय विद्यारहिताय दानमुक्तम् श्रोत्रियायैव देयानीति चेत् । न त्वईत्तमायेत्यप्राप्तिकत्वादत्र विद्यया विना वाक्यान्तराणि च " विदुषे दक्षिणे "त्यादीन्येकप्रकारगतानि सन्त्येव । अतस्त- २९ त्पर्यालोचनयोभयविशेषणचेष्टया देयमिति गम्यते । अतः श्रौतार्थपरित्यागे न किंचित्कारणं पश्यामो यस्य तु साम्यमयुक्तमिति वचनगम्येऽर्थे
का नामायुक्ता ।
अथापि । ५ फ-तत्तु
UF THE
१ फ- ददावनक्षरश्च । २फ - तन्निषिध्यते ॥ ३ - अधीयान ६ फ - श्रौत्रार्थ- 1
४६
For Private And Personal Use Only