________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः लक्ष्यते । ज्वरितस्य हि चित्तसंक्षोमो भवति तद्वत्क्रुद्धस्य । अथवा पाठान्तरं । असंज्वरः। संतापः संज्वरः (अमरकोशे १।१।६०)। स ना प्रतिषिध्यते ।। १८५ ।।
प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ॥ प्रतिग्रहेण ह्यस्याशु ब्राझं तेजः प्रशाम्यति ॥ १८६ ॥
परस्माददृष्टप्रयुक्ताद्यल्लम्यते स प्रतिग्रहः । तत्र समर्थः शक्तोऽपि प्रसंगं पुनः प्रवृत्तिं वर्जयेत् । श्रुताध्ययनशीलसंपत्तिव्यविधिज्ञता च सामर्थ्यम् । तस्मादविद्वान्न बिभीयादित्यत्रोक्तमप्येतदुत्तरार्थं पुनरनूद्यते ॥ १८६ ॥
न द्रव्याणामविज्ञाय विधि धर्म्य प्रतिग्रहे ॥ प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ १८७ ॥
तद्दर्शयति । अविज्ञाय कामोपभोगाद्यर्थ न प्रतिग्रहः कर्तव्यः । एतदुक्तं भवति। आत्मनः कुटुम्बस्थित्यै नित्यकर्मसंपत्त्यै च प्रतिग्रहः कर्तव्यो नान्यथा । अवसीदन्नपि क्षुधा । अप्रतिगृह्णन्यद्यप्यवसादं गच्छति । अवसादः शरीरस्यानभिवृद्धिः अथवा द्रव्याणां विधिं धर्म्य प्रतिग्रह इत्यवं संबन्धः क्रियते । कोऽसौ धर्यो विधिः । धर्म्य प्रयोजन विज्ञाय प्रतिग्रहमन्त्रद्रव्याणां च देवता " अग्नये हिरण्यं रुद्राय गाम्" इत्यादिः॥१८७॥ १५ हिरण्यं भूमिमश्वं गामन्नं कासस्तिलान्घृतम् ।।
प्रतिगृह्णनविद्वांस्तु भस्मीभवति दारुवत् ॥ १८८ ॥
अविदुषो द्रव्यविशेष प्रति प्रतिग्रहे दोषातिशयमाह । भस्मीभवति दारुवत् । यथा दाग्निना दग्धं भस्मीभवति तथा यो ब्राह्मणो विद्यासंपन्नो न भवति स एतानि हिर
ण्यादीनि द्रव्याणि प्रतिगृह्णन्भस्मीभवति ॥ १८८ !। २० हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम् ॥
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः॥ १८९ ॥
भूर्गौश्च तनुं शरीरमोषतो दहतः । हिरण्यमायुर्विभक्तिपरिणामः ओषतीतिकर्तव्यः । एवं अश्वश्चक्षुरित्यादिषु क्रियापदानुषङ्गः कर्तव्यः ॥ १८९॥ .
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः ॥
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति ॥ १९० ॥ फ-अदृष्टः । २ ण-र-यद्यवसादं गच्छति । ३ ण-र-उषतीति ।
For Private And Personal Use Only