________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१
अध्यायः ] मनुस्मृतिः।
३५९ सतां मार्गमिति । यदि पितृपितामहादिभिः कैश्चित्कथंचिदधर्म आचरितपूर्वः स न आश्रयणीय इति सतां मार्गमित्याह ॥ १७८ ॥
ऋत्विक्पुरोहिताचा%ातुलातिथिसंश्रितैः ॥ बालवृद्धातुरैवैद्यैातिसंबन्धिबान्धवैः ॥ १७९ ॥ मातापितृभ्यां जामीभित्रा पुत्रेण भार्यया ॥
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८० ॥ न समाचरेदित्येकैकेन संबध्यते ।
संश्रिता आश्रयागता उपजीविनः । वैद्या विद्वांसो भिषजो वा । ज्ञातयः पितृ पक्षाः । संबंधिनो वैवाह्याः । बान्धवा मातृपक्षा मातृष्वस्त्रीयप्रभृतयः ॥ १७५ ॥
जामयो भगिन्याः स्ववासिनश्च । विवादो विरोधः प्रतिकूलाचरणं वाक्कलहश्च १० एतैर्न कुर्यात् ॥ १८० ॥
एतैर्विवादासंत्यज्य सर्वपापैः प्रमुच्यते ॥
एतैर्जितैश्च जयति सर्वांल्लोकानिमान्गृही ॥ १८१ ॥ एतैर्विवादैः क्रियमाणैर्यः पापयोगो भवत्यकर्तुस्तेन न संबन्धः । सर्वपापैः प्रमु. च्यत इत्युच्यते। एतैश्च जितरुपेक्षितैः सर्वाल्लोकाञ्जयति स्वीकरोतीत्यर्थवादः॥१८१॥ १५
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः॥
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चत्विजः॥१८२ ॥ आचार्यों ब्रह्मलोकस्येशः प्रभुस्तस्मिन्परितुष्टे ब्रह्मलोकः प्राप्यते । अतो गुणतो ब्रह्मलोकेश इत्युच्यते । प्राजापत्ये लोके पिता प्रभुः ॥ १८२ ॥
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ॥ संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ १८३ ॥ आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः॥
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ १८४ ॥ भार्या पुत्रः स्वकीया तनुरात्मीयमेव शरीरम् ॥ १८४ ॥
छाया स्वा दोसवर्गश्च दुहिता कृपणं परम् ॥
तस्मादेतैधिक्षिप्तः सहेतां सज्वरः सदा ॥ १८५॥ यो भृत्यवर्गः स आत्मीया च्छाया यथा छाया नित्यानुगता न क्रोधविषय एवं भृत्यवर्गोऽपि । दुहिता कृपणमनुकम्पा दया । एतैः पूर्वोक्तैरधिक्षिप्तः परुषवचनैराकृष्टः कोपितः सहेत क्षमेत । असज्वरोऽविद्यमानज्वरः ज्वराभावेन च चित्तस्यासंक्षोभो ।
१ फ-एभिः । २ र-परितुष्टये । ३ ण-ब्रह्मलोकस्य । ४ फ-पृथिव्यां । ५ ण-स्वदासवर्गश्च; फ-स्वो दासवर्गश्च ।
For Private And Personal Use Only