SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ मेधातिथिभाष्यसमलंकृता । [ चतुर्थः लोकः संक्रोशति यथा गौरवध्यस्य वधो मांसस्य॑ भक्षणं च तद्विगार्हततरं पश्चन्तरेभ्यो लोके। दृष्टमूलश्वायमहिस्पर्शवत्प्रतिषेधः । विहितोऽयमर्थ इत्यवैधतया प्राकृतजना अनानाना अधार्मिकत्वं यष्टुः प्रख्यापयेयुस्तेषां च बहुत्वतः प्रसिद्धया शिष्टा अध्येवं प्रसिद्धमूलमनवगच्छन्तः परिवर्जयेयुस्तदुक्तं " धार्मिके सति राजनीति ॥ एतदुक्तं पूर्वै५ ाख्यातमित्यनुगतम् । न हि प्रत्यक्षश्रुतिविहितस्य स्मृत्या बाधो न्याय्यः । इदं तु युक्ततरमुदाहरणम् । नियोगधर्मः स्मृत्या विहितो लोकसंक्रुष्टत्वान्न क्रियते । तथा यः कश्चिदनाथतरुणी स्त्रियं कारुण्याद्विभर्ति तत्र यदि लोकसंक्रोश आशङ्कयते स्त्रीत्वेनैवास्मा एषा रोचते स लोकसंक्रुष्टधर्मः ॥ १७६ ॥ न पाणिपादचपलो न नेत्रचपलोऽनृजुः ॥ न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १७७ ॥ पाणिपादाभ्यां चपलः । ' तृतीयेति । (व्या. सू. २।१।३० ) योगविभागा समासः । चापलं च हस्तेनानुपयुज्यमानस्यापि वस्तुनो ग्रहणापसारणे । परस्त्रीप्रेक्षणचित्रसंदर्शनादि नेत्रचापलम् । परद्रोहार्थ कर्मबुद्धिश्च न कर्तव्या ॥ १७७ ॥ येनास्य पितरो याता येन याताः पितामहाः ॥ तेन यायात्सतां मार्ग तेन गच्छन्न रिष्यति ॥१७८ ॥ यो धर्मः पित्रादिभिरनुष्ठितो यैश्च सह प्रीतिर्भाविता यैः सह कन्याविवाहादिः कृतो यैवे च शाखा अधीता स एव पन्था आश्रयणीयः । तथा कुर्वन्न रिष्यति न बाध्यते लोके न निन्द्यते । अन्ये त्वविदुषः पुरुषधर्मेष्वहिंसादिषु प्रत्युपायोऽयं राजपटह इव म्लेच्छादीनाम् । अग्निहोत्रादयस्तु स्वप्रत्ययापेक्षा एव । अत्र चोदयन्ति । यदि निर्मूलः पित्रादिभिरनुष्ठितोऽर्थः कथं तस्य धर्मत्वम् ? अथास्ति मूलं तत् पुत्रस्यापि भविष्यति किं पित्रादिग्रहणेन ? तदेतत्परिहृतमविदुषां मूलमनानानामुपदेशोऽयमिति । __अन्ये तु यत्र निपुणतोऽपि निरूप्यमाणे संदेहो न निवर्तत उभयथा वाक्यार्थ प्रतिपत्तिस्तत्र पित्राद्याचरितः पन्था आश्रयणीय इत्याहुः । एतदपि चिन्त्यम् । २५ न हि नित्यसंदिग्धं नाम प्रमाणमस्ति । अवश्यं ह्येकार्थनिष्ठेन वाक्येन भवितव्यम् । विकल्पितेषु वा पदार्थेषु पित्राद्याचरितं कर्मानुचरणीयम् । यतोऽन्य आर्चरितवन्तः । १ ण-र-मांसभक्षणं । २ फ-शिष्टा अपि येनाप्रसिद्धमूलम् । ३ ण-वित्त । ४ फ-रिष्यते । ५फ-यैश्च । ६ फ-अधीताः । ७ र-प्रेक्षा । ८ फ-अन्यदाचरितवन्तः; ण-र-अन्याचरितवतः । २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy