SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ३५७ नरीन्दरिद्राञ्जयति परिभवति । तर्हि धर्मे स्थितान्कुतश्चन कुसृतिहीना लभन्ते । अतस्तेषां दारिद्रयशब्द ऐश्वर्ये परिभवः । समूलं च कियन्तं कालमेवं भूत्वा सपुत्रज्ञातिधनबान्धवा उच्छिद्यन्ते । तस्माद्धर्मो न हातव्यः ॥ १७४ ॥ सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा ॥ शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः ।। १७५ ॥ सत्यं यथादृष्टार्थवादिता । धर्मः श्रुतिविषयौ विधिप्रतिषेधौ । सत्यस्य तादूप्येऽपि भेदेन निर्देशोऽतिशयार्थः । अनृतं पुरुषाणां स्वभावभूतम् । अतो यत्नेन पुनः पुनः प्रतिषिध्यते । आर्यवृत्तं सदाचारः । आर्याः शिष्टास्तेषां वृत्तमाचरितं तंत्र आरमेत् । रतिः परितोषः । एतेष्वर्थेष परितोषोऽनेन विधीयते । अन्यानप्येवमाचारान्दृष्ट्वा मन:प्रसादं कुर्यात् । शिष्याश्च भार्यापुत्रदासच्छात्रा धर्मेणानुशासनीयाः। " पृष्ठतः शरीर- १० स्येत्यादि धर्माः । वाग्बाहूदरसंयतः सत्यसति च प्रयोजने | अबहुभाषिता वाक्सयमः । बाह्वोः संयमो बाहुबलाश्रयणेन कस्यचिदपि पीडनम् । उदरस्य संयमोऽनौदरिकता अबहुभोजित्वम् । औदरिकता बहु भोजित्वं भोज्यविशेषे गर्धयाँ परगृहे .बाहुल्येन भोजनम् । उक्तोऽप्यर्थः पुनरुच्यते बहुकृत्वोऽपि पथ्यं वदितव्यमिति सर्वत्र पौनरुक्त्यपरिहारः ॥ १७५ ॥ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ॥ धर्म चाप्यसुखोदकै लोकसंक्रुष्टमेव च ॥ १७६ ॥ उक्तस्त्रिवर्गः पुरुषार्थः । कश्चित्तुल्यतां मन्यमानोऽर्थकामपरिहारेण यथा धर्मः सेव्यते तद्विरोधी ज्योतिष्टोमादिः । स ह्यर्थविरोधी दक्षिणादिदानेन कामविरोधी दीक्षितस्य ब्रह्मचर्यविधानात् । एवमर्थकामावपि धर्मपरिहारेण न सेवेत । तत्र " न हिंस्याद्भू- २० तानीति " यत्र कामो हिंसाया वैरानुबन्धाद्यः कश्चिद्वक्तुमिष्यते तत्र स विषयप्रतिषेधाय, यत्र तु कस्यचिद्धिंसयाऽर्थकामाविष्येते तत्र नास्ति हिंसादोष इति प्रवर्तते तद्भान्तिनिवृत्यर्थमिदमुच्यते । परित्यजेत्परिहरेत्तादृशार्थकामौ यत्र धर्मविरोधः । एवं सर्वतो धर्मस्य बलीयस्त्वमुक्त्वा कस्मिंश्चिद्विषये तस्यापि परिहतय॑तामाह । धर्म चाप्यसुखोदकम् । उदर्क उत्तरकालः सोऽसुखो यस्य । यथा सर्वस्वदानं वा २९ ददाति धर्मकोयं महापुण्य इति । यथा नदीतीरेप्वेकान्तेष्वपि प्राकृतजना बहवः पश्यन्ति तत्र स्नानं भवतीत्यर्थस्नानं धर्मार्जनसमक्षापेक्षा तु साधुवादाय, यथा च तीर्थकाकेम्यो दानं भवति दानं धर्मो दातृत्वप्रसिद्धयुत्पादनार्थत्वात्तेभ्यो निन्द्यते । अथवा यद्गीतया १फ-तत्रारमेत् । २ ण-र-सत्यसति प्रयोजने । ३ फ-अपीडनम् । ४ ण-र-गई २ । ५ णर-अर्थकामवप्येते । ६ फ-समक्षतापेक्ष्म । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy