SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ मेधातिथिभाष्यसमलंकृता । [ चतुर्थः इदानीं शास्त्रार्थमाह नाधर्मश्चरितो लोके सद्यः फलति गौरिव । शनैरावय॑मानस्तु कर्तुर्मूलानि कुन्तति ॥ १७२ ॥ अनियतकालत्वाद्वैदिकानां शुभाशुभफलानां कर्मणामेवमुच्यते । नाधर्मश्चरितोऽनुष्ठितः सद्यः फलति फलं ददाति । वेदे हि केवलं कर्मणां विहितप्रतिषिद्धानां सुखदुःखफलत्वं श्रुतम् । कालविशेषस्तु नावगमितः । वाक्यव्यापारो हि कर्तव्यतावगमपरत्वेऽपि कर्मफलसंबन्धबोधमात्रे पर्यवस्यति न कालविशेषमाक्षिपति । फलवतां कर्मणां नित्यानां तु फलतः कर्तव्यताप्रतिषिद्धपरिहारेऽपि नैव नरकादिदुःखनिवृत्तिकामस्याधिकारः किंतु शास्त्रप्रतिषेधसामर्थ्यात् । स तु प्रतिषेधो दुःखफलत्वं प्रतिषिद्धानुष्ठानस्य बोधयति । निपुणत एतदुच्यमानमतिग्रन्थविस्तरमाक्षिपतीत्युपरम्यते। गौरिव साधर्म्यवैधर्माभ्यामयं दृष्टान्तः । यथा गौः पृथिवी व्युप्तबीजा न तदैवानेकसस्यशालिनी भवति । किंतार्ह ? परिपाकमपेक्षते तादृशं वैदिकं कर्मेति साधर्म्यम् । वैधर्मेणापि यथा गौः पशुहिंदोहाभ्यां सद्यः फलति । नैवं धर्माधर्मी । अधर्मग्रहणं धर्मस्यापि फलदानप्रति कालानियमप्रदर्शनार्थम् । आवय॑मानः कालेनोपचीयमानः १५ कर्तुः प्रतिषिद्धानुष्ठातुः मूलानि कुन्तति च्छिनत्ति । मूलकर्तनेन सर्वेण सर्वविनाश उपलक्ष्यते । यथा मूलच्छेदावृक्षादिस्थावराणामपुनर्भवस्तद्वदधर्मकारिणाम् ॥ १७२ ॥ यदि नात्मान पुत्रेषु न चेत्पुत्रेषु नप्तृषु ॥ न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः॥ १७३ ॥ इदमयुक्तं यदन्यकृतस्य कर्मणोऽन्यगामिता फलस्योच्यते । कर्तुः फलदानि वैदिकानि कर्माणि । न वैश्वानरन्यायोऽस्ति । श्रवणाभावात् । न हि पुत्राद्यर्थताऽत्र श्रुता । सत्यम् । पुत्रे पीड्यमाने पीडितस्य पितुरधिकतरं दुःखं भवति । अतः कर्तुरेव दुःखम् । पुत्रस्यापि स्वकृतात्पौर्वदोहकात्कर्मणस्तत्फलमित्यविरुद्धम् । एवं नतृष्वपि द्रष्टव्यम् । नप्तारः पौत्राः । कृतो धर्म इति संहितायास्तुल्यत्वाद्धर्माधर्मों द्वावप्युपात्तौ ॥ १७ ॥ अधर्मेणैधते तावत्ततो भद्राणि पश्यति ॥ ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ १७४ ॥ अधर्मेण प्रभुद्रोहादिनैधते वृद्धिं लभते तावत्तस्मिन्नेव काले ततो धनं ग्राम वा प्राप्य ततो भद्राणि बहुभृत्यगवाश्वादि संपत्तिलणानि पश्यत्यनुभवति । ततः सपत्ना १ र-यदा । २ ख-पृथिव्यपूर्वजो न तु दैवानेकसस्यशालिनी भवती । ३ णर-परिवासम् । ४ फपशुर्वा दोहाम्यां । ५ ण-मूले । ६ र-तत्र । ७ रण-तदीयानुवृत्तो धन । २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy