SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ मेधातिथिभाष्यसमलंकृता । [ चतुर्थः शब्देनाभिधातुम् । उपयुक्तशेषस्य त्याज्यस्यायं दूरतो निक्षेप उच्यते । तद्धि निषेकशब्देन प्रसिद्धतरम् ॥ १५१ ॥ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ॥ पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ॥ १५२ ॥ अर्थवादेषु पर्श्वङ्गसंस्तवे मैत्रः पायुरिति श्रूयते । तदिहाप्यभेदोपचारान्मित्रः पायुस्तत्र भवं शौचं मैत्रम् । प्रसाधनं केशरचनामुपलेपनादि । अथवा विशेषणविशेष्ये पदे मैत्रं प्रसाधनम् । अकृतशकृताऽपि प्रातः पायुप्रक्षालनं कर्तव्यम् । यथा हि सुप्तस्य लालास्रावादेरवश्यं भावित्वान्मुखधावनं विहितम् । एवमेतदपि विनैव वा निमित्तेन मुखस्य जघन्ययोरङ्गयोः प्रक्षालनमवश्यं कर्तव्यम् । अन्ये त्वामित्रकार्य मैत्रं तत्सर्वकार्येभ्यो१० ऽन्तरङ्गेभ्योऽपि पूर्व कर्तव्यम् । तत्राप्यशुचेः क्षणमप्यवस्थाभावात्स्वकार्यापेक्षया पूर्वत्वं द्रष्टव्यम् । तदा च पूर्वाह्नशब्दः कार्यान्तरेभ्यः पूर्वतामात्रोपलक्षणार्थो न पुनरपराह्नप्रतिषेधार्थः । अथवा मित्र आदित्यस्तदुपस्थानं मैत्रम् ॥ १५२ ॥ दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् ॥ ईश्वरं चैव रक्षार्थ गुरूनेव च पर्वसुः ॥ १५३ ॥ १५ अभिवादयेबृद्धांश्च दद्याचैवासनं स्वकम् ॥ कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ १५४ ॥ श्रुतिस्मृत्युदितं सम्यङ्बिद्धं स्वेषु कर्मसु ॥ धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ १५५ ॥ आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ १५६ ॥ न चायमेष विद्वत्तादिगुणसंपनैः साध्यते । प्रजाया ह्येते गुणाः प्रार्थ्यन्ते । तदुक्तम् "तया गवा किं क्रियते या न धेनुर्न गर्मिणी। कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः॥" अक्षथ्यमपि प्रभूतं यदसद्वयसनैरन्यलक्षणं स्कन्धोपरि तिलकादि दारिद्र्यादिदौर्भाग्य२५ सूचकं तदप्याचारो हन्ति । तेन ह्यधर्म आचारपरत्वेन नश्यति ॥ १५६ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः॥ दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ १५७ ॥ १ क-पश्चिमाङ्गसंस्तवे । २ र-ण-संपन्ना साम्यते, For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy