________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
निकृष्टजातयविणहीनाः बरिना अत्यन्तवृद्धाः । रूपाना अंगे येषां श्लीपद्याः
हीनाङ्गानतिरिक्तांगान्विद्याहीनान्वयोतिगान् ॥
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४१ ॥ हीनाङ्गाः काणकुष्ठिकुब्जादयः । अतिरिक्तमधिकं अंगे येषां श्लीपद्यादयाः । विद्याहीना मूर्खाः । वयोतिगा अत्यन्तवृद्धाः । रूपहीना दुःसंस्थानाश्चिपिटकेकरादयः । द्रविणहीनाः दरिद्राः द्रविणं धनं तेन हीना वर्जिताः । जात्या हीना ५ निकृष्टनातयः कुण्डगोलकाद्यास्तानाक्षिपेत् । आक्षेपः कुत्सा । एतेषां एतैः शब्दैराह्वानमेव कुत्सा ॥ १४१ ॥
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ॥
न चापि पश्येदशुचिः स्वस्थो ज्योतिर्गणान्दिवि ॥ १४२ ॥ उच्छिष्टो भुक्तवाननाचान्तः कृतमूत्रपुरीषश्च अशुचिमात्रमिहोच्छिष्टशब्देनो- १० च्यते । तथा चोच्छिष्टस्य गवादिस्पर्शः प्रतिषिध्यतेऽशुचिशब्देन । प्रायश्चित्तं वक्ष्यति । पाणिग्रहणमतन्त्रम् । अन्येनाप्यङ्गेन स्पर्शो नेष्यते । वस्त्राधन्तरिते नै निषेधः ॥ दिवि ज्योतिर्गणं न पश्येत् । स्वस्थोऽनातुरः । दिवीतिवचनाद्भूमौ ज्योतिषोऽग्रे चाप्रतिषेधः ॥ १४२॥
स्पृष्ट्वैतानशुचिनित्यमद्भिः प्राणानुपस्पृशेत् ॥
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ १४३ अविशेषवचनेऽपि प्राणाश्चक्षुरादय एव मूर्धन्या उच्यन्ते । प्राणशब्दश्चक्षुरादिवचनो वेदे प्राणसंभव उपनिषदि दृश्यते । गात्राणि अंसनानुपादादीनि । पाणितलेनापो गृहीत्वा स्पृशेत् ॥ १४३ ॥
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः॥
रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ १४४ ॥ __ अनिमित्ततः कण्डूयनादिनिनित्तं विना स्वानि खानि चक्षुरादीनि छिद्राणि न स्पृशेत् । रहस्यानि कक्षोपस्थगतानि विवर्जयेत्प्रकृतेन स्पर्शेन । श्लोकपूरणार्थमाख्यातान्तरोपादानम् । अन्ये त्वाहुः आख्यातान्तरनिर्देशादर्शनं प्रतिषिध्यते ॥ १४४ ॥
मङ्गलाचारयुक्तः स्यास्प्रयतात्मा जितेन्द्रियः ॥
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ १४५ ॥ १फ-क्योधिकान् । २फ-द्रव्यहीनाश्च । ३-फ सुस्थो।४ ण-निषेधः । ५ अ-क-ड-क्ष-फसंभवोपनिषदि।
For Private And Personal Use Only