________________
Shri Mahavir Jain Aradhana Kendra
३४८
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः
“ हीनाः पुरुषकारेण गणयन्ति गृहस्थितिम् । सत्त्वोद्यमसमर्थानां नासाध्यं व्यवसायिनाम् ॥” अनेन चैतद्दर्शयति । नाहं दुर्गतः क्लेशप्राप्यधन आधानादौ नाधिक्रिये ततोऽग्निहोत्र होमक्लेशादुत्तीर्णोऽस्मीति यस्य बुद्धिः स न सम्यमन्यत इति । अतस्तदर्थं प्रयतेत ॥ १३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५
सत्यं ब्रूयात्मियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ॥ प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १३८ ॥
अर्थप्रयुक्तवचनं सत्ये नियम्यते । यथादृष्टं श्रुतं च सत्यं प्रियं ब्रूयात् । द्वितीयोऽयं विधिः । औदार्यादिगुणानुकथनं परस्यादृष्टेनापि केनचिदवसरेण । तथा पुत्रजन्मादि 'ब्राह्मण पुत्रस्ते जात' इत्यसत्यपि स्वप्रयोजने यदि सत्यं तद्वक्तव्यम् । यदि १० तस्य तन्न विदितं सत्यं प्रियमप्रियं वाऽस्ति । प्रियं दर्शितं ब्राह्मण पुत्र इत्यादि ।
अप्रियं यथा 'ब्राह्मण कन्या ते गर्भिणी' तदसंत्यं न ब्रूयात्सत्यमपि कन्यागर्भग्रहणमप्रियत्वादप्रकाश्यम् । सत्यां गतौ तूष्णीमासितव्यम् । ननु गर्भिण्या गर्भिणीति वक्तव्यं प्रियत्वादत आह । प्रियं च नानृतं ब्रूयादिति । एवं च यस्य प्रथमः साक्षात्कारस्तेन तत्र तूष्णीमासितुं न लभ्यते । एष सनातनो धर्मः । सनातनो नित्यो वेदस्तेन विहित१५ त्वाद्धर्मोऽपि सनातनः ॥ १३८ ॥
भभद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ॥
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ॥ १३९ ॥
अत्र प्रथमस्य भद्रशब्दस्य नलोपं व्याचक्षते । यदभद्रं तद्भद्रमिति ब्रूयात् । इतिकरणः प्रदर्शनार्थः । कल्याणं मङ्गलं सिद्धं श्रेय इत्यादयः सिद्धाः शब्दाः प्रयो२० क्तव्याः । पूर्वपदस्यापि प्रदर्शनार्थत्वेऽन्धे चक्षुष्मान्मूर्खे प्राज्ञ इत्यादिवचनं लभ्यते । अथवा भद्रमित्येष एव शब्द एवमादिषु वक्तव्यः । शुष्कवैरं असत्यर्थादिप्रयोजन आहोपुरुषिकं वाक्यं न कर्तव्यम् । एवं राजाधिकरणे विवादं शुष्कमेवेत्यादि संपद्यते । केनचिदसमर्थेनापि ॥ १३९ ॥
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ॥
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ १४० ॥
अतिकल्यशब्दश्चाहर्मुखे वर्तते । उषःकाले न गन्तव्यम् । अतिसायं पश्चिमसन्ध्यासमयेऽज्ञातेन पुरुषेण सह न गच्छेत् । असहायश्च दृषलैः शूद्रैश्च सह ॥ १४० ॥
१ र प्रयुक्ता । २ क्ष - तदसत्यं प्रियमप्रियं वाऽस्ति ।
For Private And Personal Use Only